________________
१५२
स्थोपझटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स च लोकालोकभेदाद् द्वेधा । गति-स्थितिमाल्लोकः । तस्य असंख्येयभागादिषु परिणामभेदाजीवानामवगाहः । एकप्रदेशादिषु पुद्गलानाम् । धर्माधर्मयोः कृत्स्ने ।
तस्येति लोकाकाशम्याऽसङ्ख्येयभागादिषु परिणामभेदात् परिणतिविशेषाजीवानामवगाहो भवति, असङ्खयेयश्चासौ भागवासङ्खयेयभागः, स आदिर्येषां द्वयादीनां ते तथा, तत्रैकस्मि-5 नसङ्खयेयभागे लोकाकाशखण्डे जघन्यत एकजीवस्यावगाहः,कार्मणशरीरानुविधायित्वात् । कश्चित् पुनस्तादृशं खण्डद्वयमाक्रम्य वर्त्तते । कश्चित् त्रीणि ताशि । अपरश्चत्वारीत्यादि यावत् सकललोकाकाशमन्यो व्याप्यावतिष्ठते समुद्घातकाले केवल्येव । यत् पुनरुच्यते 'सर्वदा सकललोकाकाशावगाहिनो जीवाः, तत्समानपरिमाणप्रदेशत्वात् ,
धर्माधर्मवत्' इति तत् परिणामविशेषेणैव प्रदीपस्येव प्रदेशसंहार-विसर्गकारिणा 10 32A प्रत्याख्यायि । न चैकस्यासङ्खयेयभागस्य द्वयाद्यसङ्खयेयभागानां वाऽसङ्ख्येयप्रदेशत्वाविशेषात् सर्वजीवानां समानोऽवगाहः शङ्कनीयः, असङ्खधेयस्यासङ्खयेयविकल्पत्वात् । अन्यद्धि लोकाकाशकासङ्खयेयभागस्याऽसङ्ख्येयप्रदेशपरिमाणमन्यच्च द्वयाद्यसङ्ख्येयभागानामिति।
यः पुनराह-'अनाश्रिता जीवा अमूर्तद्रव्यत्वादाकाशवत्' इति स 'व्योमनि शकुनिः' 15 इत्यबाधितप्रत्ययेनैव प्रतिहतः । शकुनिशरीरमेवात्राधेयं न पुनस्तदात्मेत्यपि मृपोद्यम् , शरीरव्यापित्वादात्मनोऽपि तदाधेयत्वघटनात् । अमूर्तस्यापतनादात्मनो नाधेयत्वमित्यप्यालप्यालम् , अमूर्तस्यापि ज्ञानादेरात्माधारत्वात् । अंत एव चाऽमूर्त्तत्वादाकाशं न कस्यचिदधिकरणमितीयमपि रिक्ता वाचो युक्तिः, न चाधाराधेयतान्यथानुपपत्त्या सर्वाधेयानामाकौशादनन्तरं भावः, समसमयवर्तिभिरपि सलिलादिपरमाणुरूपादिभिर्व्य- 20 भिचारात् । तत्रापि पूर्वापरीभीवाभ्युपगमे नित्यत्वहानिरिति यत् किश्चिदेतदिति । १ तस्य असंख्येयभागादिषु परिणामभेदान्जीवानामवगाहः ॥ २ कार्मणशरीरं हि जघन्यतोऽपि लोकाकाशकाऽसंख्येयभागप्रमाणमेव भवति । न तु हीनम् । जीवश्च तद् व्याप्यैव तिष्ठति । इति जघन्यतोऽपि असंख्येयभागावगाह उक्तः ॥ ३ लोकाकाशसमानं परिमाणं येषाम् एवंभूताः प्रदेशाः येषां जीवानाम् ।। ४ कोऽर्थः ? लोकोऽपि असंख्यातप्रदेशो जीवा अपि असंख्यातप्रदेशा इति कृत्वा समानपरिमाणत्वम् ।। ५ 25 उच्यते ।। ६ रवान्ता एव निरालम्बना एव सन्तीत्यर्थः ।। ७ व्योम ॥ ८ आधेयत्वम् ॥ ९ अमूर्तस्यात्मन आधारवादेव ।। १० अमूर्तस्यात्मनो ज्ञानं प्रति अधिकरणत्वादेव ॥ ११ जीवादीनाम् ॥ १२ आधारभूतात् ।। १३ तदनन्तरं सर्वाधेयानां भावः सत्तेत्यर्थः ॥ १४ आदिशन्दात् पृथ्वीपरमाणुगतं परमाणुत्वं गृह्यते ॥ १५ पश्चादावः, कोऽर्थः ? पूर्वमाधारेण भवितव्यं पश्चादाधेयेनेति भावः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org