________________
१२
आमुखम् सटीकस्य द्रव्यालङ्कारस्य च टिप्पणे (पृ.१ टि०*), गुर्जरभाषात्मिकायां प्रस्तावनायाम्, तृतीये परिशिष्टे च विस्तरेण वर्णितमस्माभिः, अतो जिज्ञासुभिः तत्रैव विलोकनीयम् ।।
दार्शनिकदृष्ट्या जैनसम्मतानां षण्णां द्रव्याणां विस्तरेण प्ररूपको द्रव्यालङ्कारग्रन्थो जैनपरम्परायामद्वितीयो वर्तते । एतच्च द्रव्यालङ्कारटीकायां प्रान्ते ग्रन्थकाराभ्यां स्वयमेवाभ्यधायि“पूर्वैर्यस्य समुद्धतिर्न विहिता धीरैः कुतोऽप्याशया
___ दावाभ्यां स समुद्धृतो(तः) श्रुतनिधेर्द्रव्योत्करो दुर्लभः । एनं यूयमनन्तकार्यनिपुणं गृह्णीत तत्कोविदाः
स्वातन्त्र्यप्रसवां यदीच्छथ चिरं सर्वार्थसिद्धिं हृदि ॥२॥ मध्यं बौद्धामृतजलनिधेर्गाढवान् भ्रान्तवांश्च
न्यायाटव्यां वचनशठताप्रोच्छ्वसत्कण्टकायाम् । आम्नाती वा विषमविफलप्रक्रिये यो विशेषे
शास्त्रारम्भे यदि परमसौ दक्षतां लक्षयेनौ ।।३।। नोत्प्रेक्षाबहुमानतो न च परस्पर्धासमुल्लासतो
नापीन्दुद्युतिनिर्मलाय यशसे नो वा कृते सम्पदः । आवाभ्यामयमादृतः किमु बुधा द्रव्यप्रपञ्चश्रमः
सन्दर्भान्तरनिर्मितावनवमप्रज्ञाप्रकर्षश्रिये ॥४॥" जीवनवृत्तम् । एतेषां कदा क्व च जन्म, कदा क्व च दीक्षा, कदा क्व च पदप्राप्तिः, इत्यादिविषये किमपि नोपलभ्यते । ते महान्तो विद्वांसो हेमचन्द्रसूरीश्वराणां शिष्या आसन्निति सुप्रसिद्धमेव, तथा व्याकरणे साहित्ये प्रमाणशास्त्रे च पारगामिण आसन् ।
"शब्दलक्ष्म-प्रमालक्ष्म-काव्यलक्ष्मकृतश्रमः । वाग्विलासस्त्रिमार्गो नौ प्रवाह इव जाह्नुजः।।"
इति तैरेव नाट्यदर्पणे लिखितम् । तैर्विरचिता ग्रन्थाः१. सत्यहरिश्चन्द्रनाटकम्
२. कौमुदीमित्राणन्दरूपकम् ३. निर्भयभीमव्यायोगः
४. राघवाभ्युदयः ५. यादवाभ्युदयः
६. यदुविलासः १. पूर्वं श्रुतौं स्थाने किमपि अन्यत् पदं लिखितमासीत्, तदनुसारेण समुद्धृतो इति पाठो ग्रन्थकाराभ्यां लिखितः, ततः परं तत्स्थाने श्रुत इति संशोधितं ताभ्यामेव । किन्तु समुद्धृतो इति पदं तथैवावस्थितं तालपत्रे । श्रुत' स्थाने किं पदमासीत् तत् सम्यक् पठितुं न शक्यते, घृष्टत्वात् । ऽमृत' इत्यादि किमपि पदं तत्रासीदिति भाति । २. ताभ्यां विरचितमिमं ग्रन्थं विविधदर्शनशास्त्रनिष्णातः कश्चिन् महाविद्वानेव पठितुं शक्नोति इति स्पष्टं प्रतीयतेऽनेन श्लोकेन।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org