SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धाचलमण्डनश्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री चिन्तामणिपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः । आमुखम् । परमार्हतकुमारपालभूपालप्रतिबोधकानां कलिकालसर्वज्ञाचार्यप्रवरश्रीहेमचन्द्रसूरीश्वराणां शिष्याभ्याम् आचार्यश्रीरामचन्द्र-गुणचन्द्राभ्यां विरचितस्य द्रव्यालङ्कारस्य स्वोपज्ञवृत्तेः विक्रमसंवत् १२०२ वर्षे लिखितं जेसलमेरनगरस्थमेकमानं तालपत्रोपरि लिखितमार्दशमवलम्ब्य संशोधितस्य स्वोपज्ञवृत्तिसहितस्य द्रव्यालङ्कारस्य द्वितीय-तृतीय प्रकाशौ, P.K.D. आदर्शानुसारेण संशोधितस्य मूलमात्रस्य सम्पूर्णस्य द्रव्यालङ्कारस्य प्रथम-द्वितीय-तृतीयप्रकाशान् परमकृपालोः परमात्मनः मम अनन्तोपकारिणां पितृचरणानां गुरुचरणानां च पूज्यपादमुनिराजश्रीभुवनविजयजीमहाराजानां परमकृपया दर्शनशास्त्ररसिकानां विदुषां पुरतः प्रकाशयन्तो वयमद्य अपूर्वमानन्दमनुभवामः। ___जैनानां मते मौलिकं द्रव्यद्वयम्- जीवाश्च अजीवाश्च । तेषु जीवेषु जीवास्तिकायः, अजीवेषु पञ्च भेदा:- पुद्गलास्तिकायः, धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकाय:, कालश्च । एतानि षड् द्रव्याणि जगति वर्तन्ते । तेषां षण्णां द्रव्याणामेव विविधरूपेण जगति विस्तारो वर्तते । द्रव्यालङ्कारः त्रिषु प्रकाशेषु विभक्तः- प्रथमे जीवप्रकाशे जीववर्णनं विस्तरेण दार्शनिकपद्धत्या वर्तते । जीवानां लक्षणम्, भेदाः, जैनेतरदर्शनानां चार्वाक-बौद्ध-वैशेषिकादीनां जीवविषये मतम्, इत्यादिकं पूर्वपक्षोत्तरपक्षरूपेण दार्शनिकशैल्या अद्भुतं वर्णनं प्रथमे प्रकाशे वर्तते । द्वितीये प्रकाशेऽनयैव पद्धत्या पुद्गलवर्णनं वर्तते । तृतीये प्रकाशे शेषाणां धर्मास्तिकायादीनां पदार्थानां विस्तरेण प्ररूपणमनयैव शैल्या वर्तते । जैनदर्शनविषये आकररूपोऽयं ग्रन्थः ।। दैववशात् प्रथमप्रकाशस्य स्वोपज्ञा वृत्तिः कुत्रापि भारतदेशेऽन्यत्र वा सम्प्रति नोपलभ्यते। स्वोपज्ञा वृत्तिः कियती उपलभ्यते, क्व उपलभ्यते, मूलमात्रं कागजपत्रोपरि लिखितमपि क्व उपलभ्यते, कीदृशमुपलभ्यते, इत्यादिविषये मूलमात्रस्य द्रव्यालङ्कारस्य टिप्पणे (पृ.1 टि०*) १. एतेषु P आदर्श: वैक्रमे १४९२ वर्षे लिखितः । K.D. आदर्शयोर्लेखनसमयनिर्देशो नास्ति । १२१४ शकसंवत्सरे (वैक्रमे १३४८ वर्षे), आचार्यश्रीमल्लिषेणसूरिविरचितायां स्याद्वादमञ्जर्या द्रव्यालङ्कारस्य स्थानद्वये उल्लेखः प्राप्यते । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy