________________
धर्माधर्मास्तिकापसाधनम् । पेक्षिणीति गीयते, या पुनः सर्वकालभाविनी गतिनिरपेक्षा स्थितिः सापेक्षाकारणनिरपेक्षा11A ऽपि परिणामकारणमात्रादेव भवति, सर्वकालभाविनी गतिनिरपेक्षा चाधर्मास्तिकाय
स्थितिः, ततः सा परिणामिकारणमात्रभाविन्यपि न विरुध्यते । वायोः पुनर्गति-स्थिती परस्परापेक्षिण्यौ कादाचित्क्यौ, ततः परिणामकारणादन्ये अप्यपेक्षाकारणे अपेक्ष्येते ।
ननु यथा ज्ञानं युगपदात्मनः परस्य च वेदकं तथा वायुरात्म-परगति- 5 स्थित्योरपेक्षाकारणमस्तु,किं धर्मा-ऽधर्माभ्यामिति ? तन्न, वायुर्हि तावदात्मगति-स्थित्योः परिणामिकारणम् , स तदानीमेव कथमपेक्षाकारणं स्यात् , 'एकगोचरयोरेकैदा तयो विरोधात् । न केवलं तत्रापि भावाद् वायो नापेक्षा, तथा क्वचिदभावेऽपि भावाञ्च, कचिदतिगुपिले प्रदेशे पायोरभावेऽपि पदार्थानां गतिस्थती दृश्यते । न च यो यदभावेऽपि भवति स तत्कार्यमिति व्यवहतु शक्यः । ततो वायोः स्वयमपि गति-स्थितिमच्चात् 10 तदभावेऽपि च क्वचिदन्येषां गति-स्थितिदर्शनानासौ गति-स्थित्योरपेक्षाकारणं भवति ।
मा भूत् क्षित्यादौ वायो वाऽपेक्षा गति-स्थितिमन्चात् ,आकाशे पुनरस्तु, 11B तस्यान्योन्यापेक्षगति-स्थितिरहितत्वादिति । अत्राह--
नाप्याकाशे, लोकालोकविभागस्याभावप्रसङ्गात् , तस्य तन्निबन्धनत्वात् । जीव-पुद्गलसद्भावे कालस्यापि सद्भावः स्यात् , तत्का- 15 र्याणां तत्रापेक्षणात् । न च तदभावः, सावधित्वाल्लोकस्य । अन्यथा संस्थानाभावः ॥
नाप्याकाशे [ई]ति। अपेक्षेति पदं स्मर्यते। जीव-पुद्गलानां गति-स्थित्यो काशेऽपेक्षा, नाकाशोऽपेक्षाकारणम् , लोकालोकविभागस्याभावप्रसङ्गात् । यद्याकाशो जीव-पुद्गलगतिस्थितीनामपेक्षाकारणं स्यात्तदा योऽयं लोके 'एतावाल्लोकस्ततः परमलोकः' इत्येवं विभागो 20 विवेकः प्रसिद्धोऽस्ति तस्याभावः स्यात् । यस्मात् तस्येति लोकालोकविभागस्य तन्निबन्धनत्वात् , ते जीव-पुद्गलगति-स्थिती निबन्धनं निमित्तं यस्य तस्य भावस्तत्त्वं तस्मात् । यावत्याकाशदेशे जीव-पुद्गला गन्तुं स्थातुं च शक्नुवन्ति स लोकोऽन्यः १ वायुगतगतिस्थिरयोः ॥ २ एको गतिस्थितिलक्षणो विषयो ययोः परिणामकारणापेक्षाकारणत्वयोः ॥ ३ एकदा एककालं भिन्नविषये परिणामकारणापेक्षाकारणे न विरुध्येते इति एकगोचरयोरिति विशेषणम् ॥ ४ परिणाम- 25 कारणापेक्षाकारणत्वयोः ॥ ५ एककार्य प्रति एकदा एकस्यैव कथम् १ ।। ६ तत्रापि वायो गतिस्थित्योर्भावात् ॥ ७ वायुः ॥ ८ स्वयं क्षित्यादीनां गतिस्थितिमत्त्वात् ॥ ९ * 'आकाशे' इत्यतः परं कानिचिदक्षराणि लिखित्वा षष्टानि, ततश्च परं ति' इति अक्षरं वर्तते, अतोऽस्माभिः [] इति पूरितम् ॥ १. * वाल्लोक' इति हस्तलिखितादर्श पाठः । एवमने पृ. १४० ५० ४ मध्येऽपि ॥ ११ तस्य तन्निबन्धनत्वात् ।।
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org