________________
१३८
स्वोपझटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स्यादेवम्-'सूक्ष्माः क्षित्यादयोऽन्तरिक्षेऽपि सम्भवन्त्येव, ततस्तनिवन्धने गतिस्थिती तंत्र भविष्यत इति । अत्राह-अणूनां चेति । एतयोर्भावादिति चात्रापि स्मर्यते । अणुस्कन्धानां परमाणूनां वा गति-स्थित्योवियत्यपि भावात् । न केवलं खगादेरणूनां चेति चार्थः । क्षित्युदकतेजसामणवोऽपि व्योम्नि भ्राम्यन्ति तिष्ठन्ति च, यदि च गति-स्थिती क्षित्याद्यपेक्षे स्यातां तदा तेषां कथं स्याताम् ? न हि तत्रापरे 5 परिणामिकारणं क्षित्यादयः सन्ति येऽपेक्षाकारणं स्युः ।।
स्यान्मतम्-अणवः परस्परामन्तरिक्षेपेक्षाकारणं भविष्यन्तीति । तन्न । यतः 9 B किं गच्छता सर्वेषां सर्वे तिष्ठन्तो हेतवस्तिष्ठतां च सर्वेषां सर्वे गच्छन्तः परमाणवः,
आहो तिष्ठतां तिष्ठन्तः सर्वे गच्छतां गच्छन्त इति ? तत्राद्यपक्षकक्षीकरणे इतरेतराश्रयदोषः । गमनक्रियाप्रादुर्भावे हि स्थानक्रिया, स्थानक्रियाप्रादुर्भावे च गमनक्रियेति । 10 द्वितीयपक्षेऽप्ययमेव दोषः, "एकस्थानस्यैकगमनस्य चापरस्थान-गमननान्तरीयकत्वात् ।
___मा भूत्तर्हि क्षित्यादावपेक्षा, वायौ भविष्यतीति । अत्राप्याह- न वायाविति । अपेक्षेति योगः । तत्रापि वायावपि भावात् एतयोगति-स्थित्योः । यदि जीवपुद्गलानां गति-स्थित्यो युरपेक्षाकारणमुच्यते तदा वायुरपि भ्रमति तिष्ठति च, ततस्तस्य
गति-स्थित्योरपेक्षाकारणं वक्तव्यं स्यात् , सर्वत्र गति-स्थित्योः परिणामिकारणादन्यस्या- 15 100 पेक्षाकारणस्यापेक्षणीयत्वात् । तस्माद्यौ गत्वा न तिष्ठतः स्थित्वा च न गच्छतस्तनिवन्धने एव जीव-पुद्गलानां गति-स्थिती वाच्ये, तादृशौ च धर्मा-धर्मास्तिकायावेव, नान्यो ।
ननु यथा वायोगति-स्थित्योरपरमपेक्षाकारणं मृग्यते तथाऽधैर्मास्तिकायस्यापि स्थितेरपरमपेक्षाकारणं मृग्यम् , तथा चानवस्था । अथाधर्मास्तिकायस्थितिः परि
णामिकारणमात्रादेव भवति नापेक्षाकारणमवलम्बते तथा वायोरपि गति-स्थिती परि- 20 10 B णामिकारणमात्रनिबन्धने भविष्यतः, वायुः पुनरपरगति-स्थित्योरपेक्षाकारणं भविष्य
तीति । उच्यते-'नेति । येयमधर्मास्तिकाये स्थिति सौ गतिपूर्वा, गत्युत्तरकालभाविनी न भवति । अधर्मास्तिकायो न गत्वा स्थितः, किन्तु सर्वदापि स्थित इत्यर्थः । यैव हि गतिविरामे सति पदार्थानां स्थितिः कादाचित्की साऽस्मामिरपेक्षाकारणा१ "सुहुमा य सव्वलोए" [ ] इति भवसिद्धान्तः ॥ २ आकाशे ॥ ३ गतिस्थित्योः ॥ ४ अल्प || 25 ५ क्षित्युदकतेजोऽणूनाम् ।। ६ गतिस्थिती ॥ ७ सर्वे हेतवः ॥ ८ इति विकल्पद्वयम् ॥ ९ सेत्स्यति ॥ १० एकस्य स्थानं तस्य ।। ११ तत्रापि भावात् ॥ १२ उदरमध्यादौ ॥ १३ वायोः ॥ १५ धर्मास्तिकायस्य स्थितिरधर्मास्तिकायादपि स्यादित्यपि संभाव्यतेति स नोपात्तः । पारिशेष्यादधर्मास्तिकाय एवोपात्तः ॥ १५ न गतिपूर्वा स्थितिरधर्मे ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org