________________
धर्माधर्मास्तिकायसाधनम् । ननु गतिशून्यत्वादाकाशवद् धैर्मा-ऽधौं नान्यस्य गति-स्थितिनिबन्धनम् , अन्यथा हस्तादीनामिव गतिमत्त्वप्रसङ्ग इति । तदसङ्गतम् , गतिशून्यस्याऽन्यगति-स्थितिकरण7B शक्तौ बाधकप्रमाणाभावात् । न खलु यो येन धर्मेण विप्रयुक्तः स तं धर्ममन्यस्य
कर्तुं न शक्नोतीति नियमोऽस्ति, अज्ञानस्वभावस्यापीन्द्रियात्मनि घटादिविषयज्ञानोत्पादहेतुत्वदर्शनात् ।।
ननु यदि गतिमन्चरहितोऽप्यन्यस्य गति करोतीत्यभ्युपगमस्तदा कथं प्रथमप्रकाशे प्रत्यपादि, यथा-"यद्यात्मा गतिमान्नेष्यते तदा स्थूलस्कन्धस्य देशान्तरप्राप्तिन स्याद्"
[ ] इति । तन्त्र, तत्र हि स्थूलस्कन्धस्याविद्यमानाया गतेनिवर्तकत्वमात्मन A उक्तम् , तच्च स्वयमगतिमत्त्वे न सिध्यत्येव । अत्र तु जीव-पुद्गलानां स्वत एव विद्य
मानाया गतेलाधानमात्रहेतुत्वं धर्मास्तिकायस्योच्यते, तन स्वयमगतिमत्त्वेऽपि न 10 विरुध्यत इति न दोषः।
तदुक्तम्"आत्मा हि प्रेरेको हेतुरिष्टः कायादिकम्मणि । तृणादिकर्मणीवाम्भ:-पवनादिश्च सक्रियः ॥ १ ॥ तथैव द्रव्यसामर्थ्यानिष्क्रियाणामपि स्वयम् ।। धर्मादीनां पेरेत्राऽस्तु क्रियाकारणमात्रता ॥ २ ॥" [ ] इति ।
तैद् गति-स्थित्योः परिणामिकारणादुत्ाँदेपि धर्मा-ऽधर्मयोरपेक्षा न दुष्यति ।
स्यादेवम्-अस्तु परिणामिकारणादन्यत्र गति-स्थित्योरपेक्षा, परिणामिकारणादेवैक88 स्मात् कार्यानुत्पादात् । 'सा पुनरपेक्षा धर्मा-ऽधर्मयोर्विषये, न पुनरन्यत्र क्षित्युदकतेजःसु'
इत्यत्र न नियामकमुपलभामह इति । अत्राह-न क्षित्यादाविति । आदिशब्दादुदक- 20 तेजसोर्ग्रहः । अपेक्षेत्यनुवर्तते । धर्मा-ऽधर्मयोविषयेऽपेक्षा, न पुनः क्षित्युदकतेजःसु, खेंगादेवियत्यपि गति-स्थित्योर्भावात् । एतयोरित्यनुवर्त्तते । खगाः पक्षिणः । आदिशब्दात् प्रभअनोततृणन्तूलादीनां देवादीनां च ग्रहः । यदि हि गति-स्थित्योः
क्षित्युदकतेजांस्यपेक्षाकारणानि भवेयुस्तदा "ते गगनचारिणां न भवेतामेव । न हि 9 A गगने क्षित्यादयः सम्भवन्तीति धर्मा-ऽधर्मावेवापेक्षाकरणे, न क्षित्यादयः। 25
१ अनुमानमिदम् ।। २ यो गतिमान् दृष्टः स गतेः स्थितेश्च हेसुदृष्टः । न चैतौ गतिमन्तौ इति पृच्छयते ॥ ३ कारणम् ॥ ४ गतिस्थितिनिबन्धनत्वे ।। ५ धर्माधर्मयोः ॥६ जीवे ॥ ७ देहस्य ॥ ८ स्थूलस्कन्धं प्रति ।। • आत्मा कायादिक्रियायां प्रेरको हेतुः सन् सक्रिय इष्ट इति सम्बन्धः ॥ १० गतिलक्षणे ॥ ११ वस्तु नि । १२ न तु निर्वतकत्वम् ॥ १३ '५' [-तस्मात् ] ॥ १४ सति ॥ १५ जीव-पुद्गललक्षणात् ॥ १६ अन्य. पदार्थविषये ॥ १७ कर्योः ।। १८ खगादेर्षियत्यपि भावात् ॥ १९ पूर्वसूत्रादेतयोरिति पदमनुवर्तते, 30 तेन गतिस्थिरयोरिति व्याख्यातम् ॥ २० गति-स्थिती ॥
15
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org