________________
स्वोपज्ञटीकासहिते व्यालङ्कारे तृतीये प्रकाशे
उच्यते - धर्मास्तिकायेन सह तुल्यमान- देशत्वोपदर्शनार्थं तथा यत्रैव धर्मास्तिकायनिमित्ता गतिस्तत्रैवाऽधर्मास्तिकायनिमित्ता स्थितिर्नान्यत्रेति ख्यापनार्थं च । तेन धर्मादीनां या स्थितिः सा नाधर्मास्तिकायान्तरनिमित्ता किन्तु स्वत एव । तथा उपग्राहकाविति कार्य विशेषकथनाद् धर्मा-धर्मयोर्न किञ्चित् कार्यमस्तीति ब्रुवाणः प्रत्याख्यातः । अथ केयं गतिरिति उच्यते देशान्तरेति - एकस्माद्देशादन्यो देशो देशान्तरं 5 तस्य प्राप्तिहेतुः परिणामो जीवपुद्गलानां कथश्चिदभिन्नः पर्यायो गतिरित्युच्यते । स्थितिस्वरूपं निर्दिशति - पूर्वोदितस्वरूपस्य गतिपरिणामस्य विरुद्धो विरोधी जीवपुद्गलानां परिणामः स्थितिरित्युच्यते । विरुद्वत्वं च तस्यां संत्यां गतेर्व्युपरमभावात् । 6 B गति - स्थिती व्याख्यायोपग्राहकपदं व्याचष्टे - तयोर्गति-स्थित्योः पोषकः स्वत एवोत्पद्यमानयोरुपष्टम्भकारी यः स उपग्राहकः । अयमर्थः - जीवपुद्गलानां गति - स्थिती न 10 धर्मा-धर्माभ्यां निर्वते, किं तर्हि ? स्वत एव तेषां ते भवन्त्यौ ताभ्यां परिपुष्टिं प्राप्येते । ततो जीव- पुद्गला गति-स्थितीनां परिणामिकारणं धर्मा-धर्मं पुनरपेक्षाकारणमिति ।
१३६
6 A
7A
-
एतयोः परिणामिनो भावेऽपि ज्ञानादेखि चक्षुरादौ धर्मा- धर्मयोरपेक्षा । न क्षित्यादौ, खगादेर्वियत्यपि भावात्, अणूनां च । न वायौ, तत्रापि भावात् । न गतिपूर्वा स्थितिर- 15 धर्मे । क्वचिदभावेऽपि भावाच्च ।
स्यादेवम् - यदि जीव- पुद्गलेभ्य एव गति स्थिती प्रादुर्भवतस्तदा पूर्यते धर्मा- धर्माभ्याम्, तत्कार्यस्य प्रकारान्तरेणैव सिद्धत्वादिति । एतयोरिति गति-स्थितिपरिणामयोः परिणामिनो' भावेऽपि परिणामिकारणेभ्यो जीव- पुद्गलेभ्यः समुत्पादे ऽपि धर्मा-ऽधर्मयोरपेक्षेति सम्बन्धः । ज्ञानादेखि चक्षुरादाविति साधर्म्यनिदर्शनम् । आदिशब्दाभ्याम- 20 दीनां क्षित्यादीनां च परिग्रहः । यथा ज्ञानादयः स्वस्वपरिणामिकारणेभ्य आत्मादिभ्यः प्रादुर्भावमनुभवन्तोऽपि चक्षुरादीनपेक्षा प्रत्ययानपेक्षन्ते तथा यद्यपि जीव- पुद्गललक्षणपरिणामिकारणेभ्यो गति स्थिती प्रादुर्भवतस्तथापि धर्मा-धर्मावपेक्ष्येते । अन्यथा ज्ञानादीनामपि चक्षुरादावपेक्षा न भवेत् ।
१ अवयवस्व ॥ २ जीवादौ ॥। ३ प्रयोजन ॥ ४ देशान्तरप्राप्तिहेतुः परिणामो गतिः || ५ विरुद्ध: 25 स्थितिः || ६ स्थिस्याम् ॥ ७ तत्पोषक उपग्राहकः || ८ एतयोः परिणामिनो भावेऽपि ज्ञानादेरिव चक्षुरादौ धर्माधर्मयोरपेक्षा ॥ ९ '५' [ = पञ्चम्यन्तम् ] ॥। १० बीजादुत्पद्यमानानाम् ॥ १९ अपेक्षा || १२ निमित्तकारणानि ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org