________________
अथ तृतीयोऽकम्पप्रकाशः ।
।। अहं ।।
अथाकम्पानि । प्रथमप्रकाशे तावदशेषद्रव्याणां प्रधानमात्मा स्वरूपभेदैः प्रमाणप्रतिष्ठितः कृतः, तदनु द्वितीयप्रकाशे तेदत्यन्तोपकारकाः पुद्गलाः । सम्प्रति पुनर्गति स्थित्यवगाहदानेनो- 5. भयोपकारकाणां धर्मादीनामवसरः, ततस्तेऽपि स्वरूपतः प्रमाणप्रतिष्ठिताः क्रियन्ते । तत्र प्रत्येकपरिसमाप्तं लक्षणमनुदाहृत्यैव सर्वेषामेकप्रकाशप्रपश्चनानिवन्धनं सामान्यधर्माभिधायि प्रथममधिकारसूत्रमाह-अथाकम्पानीति । अथ ध्वनिरधिकारार्थों मङ्गलार्थो वा, अस्मिन् प्रकाशेऽकम्पानि त्रीणि द्रव्याण्यधिक्रियन्ते। कम्पनं कम्पो देशाद् देशान्तरप्राप्तिहेतुः पर्यायविशेषः, स येषां नास्ति तान्यकम्पानि, गमना-ऽऽगमनक्रियारहितानी- 10 त्यर्थः । कम्पनं च द्रव्यपर्यायो न पुनः पदार्थान्तरम् , तथाऽप्रतीयमानत्वात् , गुणसामान्य-विशेष-समवायवत् ।
ननु च क्रिया द्रव्यात् पदार्थान्तरम् , तद्भिनलक्षणत्वाद् , गुणादिवत् , कम्पनं च क्रियेति । न, कथश्चिद्भिन्नलक्षणत्वस्य द्रव्यव्यक्तिनेभिरकान्तात् । तथापि पैदार्थान्तरत्वे द्रव्यादिव्यक्तीनां पदार्थान्तरत्वप्रसङ्गेन षटपदार्थनियमः कुतः स्यात् ? "द्रव्यत्व- 15 प्रतीतिमात्रं द्रव्यलक्षणं सकलद्रव्यव्यक्तीनाममित्रम् , तैस्य कर्मणि मनागप्यभावात् । सर्वथा तद्भिवलक्षणत्वं हेतुरिति चेत् । न । "एवमपि "द्रव्यात् कथञ्चिदभेदिभिः पर्यायैरनैकान्तिकत्वात् , सर्वथा भिन्नलक्षणत्वस्य पर्यायरूपतायामपि घटनात् , गुणकर्म सामान्य-विशेष-समवायानां पर्यायलक्षणत्वेन द्रव्यलक्षणायोगात् । सामान्य-समवायौ १ तस्यात्मनः ॥ २ जीव-पुद्गल ॥ । मङ्गलार्थप्रतिपादकशब्दश्रवणादेव मङ्गलं लब्धम् , अतो न युक्ति- 20 रुपन्यस्यते । ननु आदौ अन्ते च मजलं युक्तं भवति । न । मङ्गलमध्यान्यपि शास्त्राणि भवन्तीति ।। ४ व्युत्पत्तिवाक्यम् ॥ ५ पदार्थान्तरत्वेन ॥ ६ विशेषो वैसरश्यम् ।। ७ द्रव्याद् भिन्नलक्षणत्वात् ।। ८ द्रव्यात् क्रियायाः कश्चिद् भिन्नलक्षणत्वमाहोस्वित् सर्वथा वा इति विकल्पद्वयम् । तत्राद्ये पक्षे उच्यते । पुद्गलेभ्यस्तावदाकाशं कश्चिद् भिन्नलक्षणमस्ति न च तद् भिन्नं द्रव्यं भवति, किन्तु एकद्रव्यलक्षणमध्ये पतति ॥ ९ नवभिव्यरनेकान्तात् । कोऽर्थः! नवानामपि द्रव्याणां कथञ्चिद भिन्नलक्षणस्वमस्ति, ततो भिन्नलक्षणत्वे 25 पदार्थान्तराणि स्युः ॥ १० अनेकान्तत्वे सत्यपि ॥११ क्रियायाः ॥ १२ द्वितीयविकल्पे उच्यते ॥ १३ तस्य द्रव्यलक्षणस्य ॥ १४ क्रियायाम् ॥ १५ द्रव्यात् ॥ १६ द्रव्यात् सर्वथा भिन्नलक्षणत्वेऽपि ॥ १७ कथञ्चिदमेदिनामपि पर्यायाणां शेयवादीनां भिन्न लक्षणत्वेऽपि न पदार्थान्तरत्वमिति व्यभिचारी हेतुभिन्नलक्षणस्वम् ॥ १८ उभयवादिसिः सर्वया द्रव्याद् भिन्नलक्षणैः अस्तित्व शेयत्वप्रमेयत्वादिभिः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org