________________
सामान्य विशेषसाधनम्
नासत्यः प्रत्ययः शाब्दोऽस्खलनाद् वञ्चनं समम् । सर्वार्थवाचकत्वेऽपि बुद्धिः कारणमीक्षते ॥ ४ ॥
इति सङ्ग्रहश्लोकाः ॥ इति द्रव्यालङ्कारे पुद्गलप्रकाशो द्वितीयः प्रकाशः ॥
येदित्यादि । यस्यार्थस्य ग्रहणपरिणत्या परिच्छेदपरिणामेन जाता धीस्तस्य वेदिनी 5 तस्य प्राहिका निराकारापि बाह्यार्थसारूप्यरहिनाऽपि, यतो निराकारेणापि ज्ञानेन बाह्यार्थपरिच्छेद उपपद्यते तेन कारणेनाऽो घटादिः प्रत्यक्षेणैव सिध्यति । अर्थास्तित्वं प्रत्यक्षेणैव
सिध्यतीत्यर्थः । 1993 नन्वर्थाभावेऽपि ज्ञानमुत्पद्यते ततः कुतस्तस्मादर्थसत्तानिश्चय इत्याह-अशुद्धे
त्यादि । यज्ज्ञानं सुप्त-मदमूञ्छिताद्यवस्थासु बाह्यार्थामावेऽपि समुत्पद्यमानं दृष्टं 10 तदशुद्धजन्यं दुष्टकारणारब्धत्वेन भ्रान्तमित्यर्थः, ततस्तेन न व्यभिचारः । यत् पुनः शुद्धकारणजन्यत्वेनाऽभ्रान्तं तदवश्यमर्थ न व्यभिचरत्येव । तदाह-नार्थ तज्झति शुद्धजं शुद्धहेतुजन्यम् । ननु यदि ज्ञानार्थी भिन्न व्यक्ती तदा कथमेकोपलम्भनियमो भवेदि
त्याह-एकोपलम्भनियम उपलम्भकत्वनियमः स्वाभासज्ञानजन्मतः स्वसंविदितज्ञानोत्पादाद् 196A भवति । ज्ञानं स्वसंविदितमेयोदयते । स्वसंवेदनं च ज्ञानोपलम्भो नान्यत् । 15
अर्थोपलम्भोऽप्यर्थग्रहणपरिणामस्य ज्ञानस्य ताप्येण संवेदनमेव । तथा च सत्येक एव सर्वदाप्युपलम्भः । अर्थग्रहणपरिणामरूपज्ञानवेदनस्यार्थोपलम्मरूपत्वात् तस्यैव च ज्ञानोपलम्मत्वात् । ___तदेवं ज्ञानाद्वैतदक्षणं सगृह्य विकल्पप्रामाण्यवादमुपसङ्ग्रहाति-सदृशेत्यादि । सदृशं सामान्यरूपम् , असदृशं व्यावृत्तरूपम् , सामान्य विशेषरूपमित्यर्थः । सदृशासदृशं च 20
तत् ग्राह्यं विषयश्चेति विशेषणसमासः । तद्ग्रहणशीलो अवायो निश्चयज्ञानं प्रपद्यते 1968 'प्रमाणताम् ' इति सम्बन्धः । इन्द्रियजनितत्वेन इन्द्रियेभ्य उत्पादात् , आलोचना निर्वि
कल्पकं प्रमाणम् , सा इवेति यथा बालोचनेन्द्रियान्वयव्यतिरेकानुविधानात् प्रमाणम् तथाऽवायज्ञानमपि ।
सम्प्रति शब्दाना वस्तुविषयत्ववादमुपसङ्ग्रहाति-'नेति । शाब्दः प्रत्ययो नासत्यः 25 १ यद्ग्रहणपरिणत्या जाता धीस्तस्य वेदिनी। निराकारापि तेनार्थः प्रत्यक्षेणैव सिध्यति ॥ २ अशुद्धजन्यं स्वापादौ नार्थ तूम्मति शुद्धजम् । एकोपलम्भनियमः स्वाभासज्ञानजन्मतः॥ ३ एतदेव भावयति ॥ ४ '६' [ - विग्रहे षष्ठयन्तम् ] ॥ ५ सशासदृशग्राह्यवाद्यवायः प्रपद्यते । इन्द्रियर्जनितत्वेनालोचनेव प्रमाणताम् ॥ ६ ज्ञानम् ॥ ७ नासत्यः प्रत्ययः शान्दोऽस्खलनाद् पञ्चनं समम् । सर्वार्थवाचकत्वेऽपि बुद्धिः कारणमीक्षते ॥ इति सङ्ग्रहश्लोकाः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org