________________
१३०
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
धूमाद् दृष्टा ततः सा तथैवाभ्युपगम्यते । शब्दादर्थप्रतीतिस्तु व्यधिकरणादपि दृष्टा, ततः साऽपि तथैवाङ्गीक्रियते । साध्यानुसारेणैव हि साधनेषु विचारप्रवृत्तयो न पुनः साधनानुसारेण साध्येषु ।
1
अत एवेति यत एव व्यधिकरणादपि शब्दादर्थप्रतीतिर्भवति तत एवाऽनुमासोऽपि भिद्यते, अपेः क्रियान्ते योगः, भिद्यतेऽपीत्यर्थः । यात्रता शाब्दमनुमानं च परोक्षार्थविषयं 5 तावता न मेदः । यावता च व्यधिकरणात् समानाधिकरणाच साधनात् प्रादुर्भावस्तावता भेदः । तच्छब्दं पृथगेव प्रमाणम् । अयं च न्यायः- आप्तशब्दो बाह्यार्थ - विषयः, तत्प्रतीतौ व्यापार्यमाणत्वात् चक्षुर्वत् । तत्प्रतीतौ व्यापार्यमाणत्वं तत्र 195A प्रवर्त्तकत्वेन व्याप्तम् । साध्याभावे च तदभावः स्यात् । न हि यो यद्विषयो न भवति स तत्र प्रवर्त्तकः । व्यापकाभावे व व्याप्यस्य हेतोरप्यभाव इति व्यापकानु- 10 पलब्धिर्विपक्षे बाधकम् । धृवद् बाह्यप्रतिबद्धत्वं वा साध्यम् । अत्र च बाह्यार्थान्वयव्यतिरेकानुविधापित्वेन हेतुव्र्व्याप्तिः । सोध्याभावे च तदभावः स्यात् । न हि यो यत्र सम्बद्धः स तदन्वयव्यतिरेकानुविधौयी । व्यापकाभावे च व्याप्यस्य हेतोरप्यभावः । न वै यो यदन्वयव्यतिरेको नानुविधत्ते स तत्प्रत्ययार्थे व्यापार्यते । इतिकरणः शब्द विचारावसानं पिशुन्यति ।
सम्प्रति ज्ञानवादादारभ्य सङ्क्षेपेण प्रमेयं श्लोकैः सगृहाति
१ ॥
यग्रहणपरिणत्या जाता धोस्तस्य वेदिनी । निराकाराऽपि तेनार्थः प्रत्यक्षेणैव सिध्यति ॥ अशुद्धजन्यं स्वापादौ नार्थे तुज्झति शुद्धजम् । एकोपलम्भनियमः स्वाभासज्ञानजन्मतः ॥ २ ॥
सदृशा ऽसदृशग्राह्यग्राह्यवायः प्रपद्यते । इन्द्रियैर्जनितत्वेनाऽऽलोचनेव प्रमाणताम् ॥ ३ ॥
Jain Education International 2010_05
15
१ अत एवानुमातोऽपि भिद्यत इति ।। २ अनुमानरूपज्ञानतोऽपि ॥ ३ '६' [ = षष्ठयन्तम् ] ॥ ४ '६' [ = विग्रहे षष्ठयन्तम् ] ॥ ५ बाह्यार्थ || ६ साध्यस्य बाह्मार्थविषयत्वस्य प्रवर्तकत्वं प्रति व्यापकस्याभावे || ७ शब्दस्य बाह्यार्थप्रवर्तकत्वाभावः || ८ प्रवर्तकत्वाभावे च ॥ ९ बाह्मार्थमतीतो व्यापार्थ- 25 माणस्वरूपस्य हेतोः ॥ १० आप्तशब्दो बाह्यार्थप्रतिबद्धः, तत्प्रतीतौ व्यापार्यमाणत्वाद्, धूमवदिति वाऽनुमानम् ॥ ११ अनुमाने || १२ बाह्मार्थप्रतिबद्धत्वाभावे च ॥ १३ शब्दः ॥
For Private & Personal Use Only
20
www.jainelibrary.org