________________
१२८
सामान्य विशेषात्मकं वस्तु शब्दस्य विषयः ।
1924 दवश्यं प्राप्तिनिमित्तं ज्ञानान्तरमुद्यते यतः किञ्चिदवाप्यत इति । न एवं धनुमानस्याप्यप्रामाण्यं स्यात्, प्रत्यक्षवत् स्वरूपेणाप्रतिमासनात् । वस्तुप्रवृत्ति प्रापणाभ्यां प्रामाण्यमिति चेत्, स एषः न्यायः शब्देऽपि प्रगुणः । ततोऽपि वस्तुनि प्रवृत्तेः प्राप्तेश्च । न च प्रवृत्तिविषयोपदर्शकत्वादन्यं प्रामाण्यहेतुमभ्युपगतोऽसि । प्रवृत्तावपि बाघकोत्थानाद् मरीचिकासु जलज्ञानस्येवाऽप्रामाण्यं स्यात् । तंतु नास्ति । न झाप्त- 5 वचनादर्थं प्रतिपद्य प्रवर्त्तमानो विप्रलमते । ज्ञानान्तरादवाप्तिः पुनः प्रत्यक्षा-ऽनुमानयोरपि प्रामाण्यमुपहन्ति तस्य तत्रापि सम्भवात् ।
192B
प्रवृत्तिविषयोपैदर्शकं प्रमाणम्, प्रदर्शिते ह्यर्थे प्रवर्त्तित: पुरुष: प्रापितस्यार्थम्, एतच ज्ञानान्तरादवाप्तावपि प्रत्यक्षा अनुमानयोरस्तीति चेत्, एवं तर्हि प्रत्यक्षमप्रमाणमस्तु । प्रवृत्तिविषयोर्थो निश्चितोऽनुसंहितार्थक्रियासामर्थ्यथ । बालोऽपि हि यावत् 10 स एवायमिति न प्रत्यवमृशति तावनोपरतरुदितो मुखमर्पयति स्तने । न चेदेभिर्यंतो व्यापारान विकल्पकं कर्तुमीष्टे । निश्वयानुसन्धाने हि विकल्पवृत्तम्, तस्यैव प्रामाण्यं स्यात्, सम्यग् निर्णयत्वाद ।
अथ स्वयं वा निश्चयाऽनुसन्धानाभ्यां ज्ञानमर्थ प्रवृत्ति-निवृत्ती कुर्यात् परेण 1934 बा, नास्ति विशेषः, निश्चया अनुसन्धानयोरुभयत्रापि प्रयोजकत्वात् । अस्ति वैयैर्ध्य 15 नाम महान विशेषः । निश्येन हि निश्चितेऽनुमंहिते चार्थे निष्पादितक्रिये कर्मणि प्रवर्त्तयितुर विकल्पकस्य व्यर्थः प्रामाण्यसमर्थनाक्लेशः । नौगृहीतस्यै निश्चया अनुसन्धाने इति तमिवेन प्रमाण्यमित्यपि न नैपुणम् । एकत्राप्यर्थेऽनन्तपूर्वज्ञानराशेः प्रामाण्याम्युपगमप्रसङ्गात् निर्विकल्पका दिसन्तानस्य तैदविनाभाविश्वात । आलोक- चक्षुषोरपि च प्रामाण्यं स्यात् । निश्रयाऽनुसन्धानयोस्तदपेक्षणात् । निश्चयोऽनुसन्दधान: 20 प्रवृभ्यङ्गम् ततोऽसो प्रमाणम् । चक्षुरालोक निर्विकल्पकानि पुनः प्रभोगौपयिकानि ।
+
9
१ प्रत्यक्षलक्षणम् ।। २ अर्थस्य स्वरूपेणानुमानेऽप्रतिभानादित्यर्थः । प्रत्यक्षत्रदिति व्यधिकरणो दृष्टान्तः ॥ ३ बाघकोत्थानम् || ४ ज्ञानान्तरस्य ॥ ५ '६' [ = विग्रहे षष्ठयन्तम् ] || ६ प्रवृत्तिविषयोपदर्शकत्वम् ॥ ७ अर्थस्य || ८ यस्मात् ॥ ९ प्रत्यक्षम् || १० '२' [ = द्वितीयान्तम् ] ॥ ११ निर्विकल्पकम् ॥ १२ '६' [ = विग्रहे षष्ठयन्तम् ] ॥। १३ व्यापारः || १४ '५' [ = तस्मात् ] ॥। १५ आचार्य एव ।। १६ परवेद्यं 25 घा || १७ पूर्वदृष्टार्थक्रियाजननसमर्थोऽयमित्यनुसन्धानम् ॥ १८ स्वयं परेण निर्विकल्पक - विकल्पयोरपि ॥ १९ स्वात् ॥ २० परः || २१ यत एव निश्वयेन निश्चितोऽनुसंहितार्थोऽत एव निष्पादि[त]क्रियः तेनैव प्रवृत्तियोग्यः कृतः । अत एवानुत्राद्वारेणाऽविकल्पस्य व्यर्थता कथ्यते ॥ २२ भावयति ।। २३ परः ॥ २४ निर्विकल्पेन अगृहीतस्य अपरिच्छिन्नस्यार्थस्य ॥ २५ निर्विकल्पकस्य || २६ आचा[र्यः ] ।। २७ पूर्वोपादानशानसन्तानाविना ॥ २८ 'क्षक्षणात्' इति अशुद्धः पाठो हस्तलिखितादर्शे ।। २९'५' [ = तस्मात् ] ॥ 30 ३० निर्विकल्पं विकल्पं प्रत्युपादानकारणम् । जैनमते हि सविकल्पस्य अवायरूपस्य प्रामाण्यम्, न तु अवग्रहस्य, एकसामयिकस्वात् ॥ ३२'६' [=विग्रहे षष्ठयन्तम् ] ।। ३२ कारणानि सहभावेन उपादानभावेन च ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org