________________
स्थोपाटीकासहिते द्रव्यालद्वारे द्वितीथे प्रकाशे
१२७ घेतावताऽपि वाक्येन भवनान्तर्भागवत्तिनं इम्ममवैति तमेवानयति च । तदत्र शान्दप्रत्यये यद्यप्यधिकरणस्य प्रतीतिस्तदभिधायककृता नास्ति तथापि प्रकारान्तरंकृताऽस्ति । २ च वक्तव्यं 'देशावगमः प्रकारान्तरकृतोऽयं न शन्दकृतः, शन्देन त्वनियतदेश एवाथोऽभिहितः' इति, इम्भमानयेति वाक्यादेव देशस्य स्मरणात् । अयं तु विशेषः
वाक्येनामना कुम्भोऽमिहिती देशस्तु स्मारित इति । न च यदर्थपरिज्ञानं प्रकारा. 5 1900 न्तरेणापि भवति तदभिधायी घनिरुचारयितुमुचितः, उक्तार्थानामप्रयोगात् । भवद्भिरपि
च यो दृष्टान्तोपदर्शकवचनमन्तरेणापि स्वत एव साध्येनान्वयव्यतिरेको हेतोरवगच्छति तं विद्वांस पुमांसं प्रति हेतुवचनमेव केवलमुच्यते, न दृष्टान्तवचनमपि, तदर्थस्य हेतवचनेनैव गतत्वात् । यत् प्रमाणवात्तिकम्"तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ।
10 ख्याप्येने, विदेषां वाच्यो हेतुरेव हि केवलः ॥" [प्रमाणवार्तिके १।२८] इति ।
ततो यत्र वाक्ये देशपदपयोगो नास्ति तत्रापि प्रतिनियतदेश एवार्थः शान्द1914 प्रत्ययेन दर्यते, स च तादृश: प्रवृत्तिविषय एव । ततः शान्दमपि ज्ञान प्रतिनियतदेशार्थोपदर्शकमेव, तथा च प्रमाणान्तरवत् प्रमाणमेव ।
एवं तर्हि यः पूर्व दृष्टार्थदेशो न भवति, दृष्टार्थदेशं पुमांस प्रत्युच्यमानं च 15 'अम्भस्कृम्ममानय' इति वाक्यं तटस्थ एव शृणोति, तस्याप्यम्भःकुम्भप्रत्ययो भवति । न चासौ प्रतिनियतार्थोपदर्शकः, देशाभिधायिनो घनेरश्रवणात् , अतः कथं प्रमाणं स्यादिति । अत्रापि निरूप्यते-यः पुमान् प्रवर्तितुकामो भवति तं प्रत्येव शान्दप्रत्ययो
नियतदेशमर्थप्रदर्शया प्रमाणं स्यात् । तटस्थस्तु पुमान् प्रवर्तितुकाम एव न भवति । 191B ततस्तं प्रत्यसाक्थमात्रोपदर्शकन्वेनापि प्रमाणम् ।
20 ___ अपि च, भवद्भिरप्य मिनायकार्यत्वेन शब्दस्य तद्विषये शाब्दप्रत्ययस्य प्रामाण्यमिष्यते, न चासावमिप्रायः प्रातिविषयः, ततः सोऽपि प्रमाणं न स्यात् । तस्माच्छाब्दप्रत्ययः प्रवर्तितुकामस्य पुंगो नियतदेशमेवार्थ प्रवृत्तियोग्यं दर्शयन् प्रमाणम् । प्रवर्तितमनिच्छोरुदासीनस्य पुनस्र्थमात्रोपदर्शकत्वेनापि प्रमाणम् ।
ननु न शन्देभ्यः स्वरूपेणार्थः प्रत्यक्षवत् प्रतिभासते यम्य प्रवृत्तिविषयत्वं स्यात् , 25 शन्दोन्थापितस्य विकल्पितस्य हानोपादानायोगात् । 'वर्तमानस्य तु पृथिव्याममजना. १ शब्द ।। २ प्रत्यक्षादिना ॥ ३ तादात्म्य-कार्यकारणभावौ ।। ४ तद्भाव-हेतुभावा[व]जानतः ।। ५ तद्भावहेतुभावविदुषां जानतां पुनः ।। ६ विवक्षा ।। ७ विवक्षया कार्यः शब्दः ( कार्याः शब्दाः १) विवक्षा सूचयेयुः ।। ८ अभिप्रायविषये ॥ ९ सामान्यरूपस्थावस्तुन इत्यर्थः ।। १० शब्दात् प्रवर्तमानस्य पुंसः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org