________________
स्थोपाटीकासहित दम्यालङ्कारे द्वितीये प्रकाशे विषयमेदमात्रनिमित्तः प्रमाणभेदस्तै देन व्याप्तः । तेन यत् प्रत्यक्षानुमानार्थव्यतिरिक्तविषयं न भवति न तत्ताभ्यां भिन्नं प्रमाणम् , यथा ते एव प्रत्यक्षानुमाने प्रत्यक्षानुमानान्तराभ्यां यथा या भ्रान्तिज्ञानम् , न भवति च प्रमाणं नाम प्रत्यक्षानुमानव्यतिरिक्तप्रमेयमिति व्यापकाभाव एव" [प्रमाणविनिश्चयटीका पृ० १३ B-१४ A] इति,
. तदपि निरस्तम् । यतो नास्माभिर्विषयमेदेन भेदं उच्यते, कि तर्हि ? स्वार्थ परार्था- 5 नुमानवत् साधनभेदेन । यथा हि स्वार्थ-परार्थे धूमानुमाने अग्निविषयत्वेनाभिन्न विषये 139A अपि साधनभेदाद् भिद्यते तथा शान्दा-ऽनुमाने अपि । विषपस्तु सार्थ-परार्थयोरिवेक
एव । अत एव परोक्षत्वेनानयोरेकत्वमपीष्यते । अपमर्थः-यद्यनयोः साधनाभेदेनैकत्व. मिष्यते तदाऽसौ न सिद्धः । अथ विषयामेदेन तदा तस्मिन् सत्यपि साधनभेदेन स्वार्थ-पगर्थवदनयो दो भविष्यति । अन्यथाऽसौ स्वार्थ परार्थयोरपि न स्यादिति । 10 ___स्यान्मतम्-प्रवृसिविषयार्थोपदर्शकं ज्ञानं प्रमाणम् । प्रतिविषयवार्थों नियतदेश एव सम्भवनि, अनियतदेशस्याप्रवृत्तिविषयत्वात् । न च शाब्दप्रत्यये नियतदेशोऽर्थः
प्रतिमाति, शब्दादर्थमात्रस्यैव प्रत्ययात् । तत् कथमसौ प्रमाणं भवेदिति । यदाह1890 "प्रवृत्तिविषयस्य व्यवस्थापकं प्रमाणमिष्यते । तत्र सत्यपि बाह्येनार्थेन सम्बन्धे
पाच्यभूतेन पदेभ्यो यः पदार्थप्रत्यय उत्पद्यते न तेन कश्चित् प्रवृत्तिविषय उपस्थापितो 15 येन घटार्थी कृतश्चिनिवृत्य क्वचित् प्रवर्तेत । तथाहि-देशविशेषसम्बद्ध वस्तुनि प्रवृत्तिविपये पुरुषः प्रवर्तितुमुत्सहते । न च केनचिद्देशेन विशिष्टो घटो घटशब्देनोपदर्शित इति कथं तस्मात् प्रवृत्तिः" [ ] इति ।
अत्र निरूप्यते-इह तावच्छब्दाद् द्वौ प्रतिपाद्यौ-पूर्व दृष्टार्थदेशोऽदृष्टार्थदेशश्च । तत्र यः पूर्वमदृष्टार्थदेश: शब्दानुक्तं चार्थ स्वयमवगन्तुमनलं तं प्रति प्रतिनियतदेश 20 एवार्था वाक्येन बोध्यते, यथा 'भो भृतक ! भवनान्तर्भागादम्भस्कुम्भमानय', स
एष भृतकोऽस्माद्वाक्यात् प्रतिनियतदेशमेव कुम्भमवैति आनयति च, वाक्यात् प्रति1904 नियतदेशार्थविषयस्यैव प्रत्ययस्योत्पादात् । तदमुना प्रत्ययेन प्रतिनियतदेश एवार्थों
दर्शितः, स च प्रवृत्तिविषय एव । यः पुनः पूर्व दृष्टार्थदेशः प्रतिपाद्यो भवति तं प्रत्यधिकरणपदविशेषणनिरपेक्षमपि वाक्यमुच्चार्यते यथा 'अम्मस्कुम्भमानय' इति । स 25
१ विषयभेदेन ॥ २ ज्ञानम् ॥ ३ प्रत्यक्षानुमानाभ्यां परिच्छेद्योऽर्थः प्रत्यक्षादिः ॥ ४ न भिने प्रमाणे इति सम्बन्धः ॥ ५ प्रमाणभेदः ॥ ६ क्रियाभेदेन व्यापारभेदेन ॥ ७ शन्दानुमानयोः ब्यापारामेदेन ॥ ८ अर्थस्य ॥ ९ शब्दस्य ॥ १० पुमांसौ ॥ ११ अधिकरणस्य प्रतिपादकं पदमधिकरणपदम् , तदेव विशेषणम् , तस्य निरपेक्षम् ॥
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org