________________
ફરક स्थोपाटीकासहिते ग्यालकारे मितीये प्रकाशे 11. दित्यनुभूयाप्यर्थक्रियार्थी प्रवर्तते । 'अन्यनिवृत्तेः स्फुरणात् प्रवृत्तिरिति चेत् । न ।
विधिरूपस्यैव स्फुरणात् । न हीह महीधरोद्देशेऽग्निरस्तीति शब्दश्रवणादन मिन भवतीति विज्ञानमुदयते । किं नाम ? 'अग्निरस्ति' इति ।
यद्यपि शान्दे प्रत्यये निवृत्तिन प्रतिभासते तथापि निवृत्तः पदार्थोऽवभासते । निवृत्तपदार्थोल्लेख एव च निवृत्युल्लखः । न ह्यनन्त वितविशेषणा विशिष्टप्रतीतिरिति 5
चेत्, एवं तर्हि शब्द विषयालीकत्वाय दत्तो जलानलिः, निवृत्तस्यार्थक्रियाकारित्वेन 186A परमार्थसच्चात् । यापि च व्यावृत्तनान्तरीयिका व्यावृत्तिः सापि नावस्तु, अभावांशस्य
भावांशाभेदेन. वस्तुत्वात् । अपि च, अस्त्वन्य निवृत्तिप्रतीतिस्तथाऽपि बाह्ये प्रवृत्तिर्न प्रामोति । न ह्यष्टो नास्तीत्येव पटार्थी प्रवर्तते, अपि तु पटोऽस्तीति । अपटस्यैव निवृत्तिरिति नियमवत्या प्रतीतौ पटसत्तासम्भावनया नैष दोष इति चेत् । न, 10 पैटनिवृत्यप्रतिक्षेपे नियमस्यैवाघटनात् । तत्प्रतिक्षेपे वा कस्ततोऽन्यः पटविधिः ? तस्माद् बाह्यप्रवृत्यन्यथानुषपच्या शाब्दः प्रत्ययो नालीकविषयः ।।
____ तदवायविषये सामान्यविशेषात्मनि शब्दसड़ेतः । सङ्केतितश्चाभिधेयः ।
सम्प्रति प्रस्तुतमुपसंहरति-तत् तस्मादवायविषये ऐन्द्रियकनिश्चयज्ञानगोचरे सामान्य- 15 1868 विशेषात्मनि शब्दसङ्केतः क्रियते। सबैतितश्चाभिधेयः शब्दानां वाच्यो भवति । न हि
शब्दा निरभिधेयाः, तच्छ्वणानन्तरं बाह्यार्थप्रतीतिप्रवृत्यादिदर्शनात् । अभिधेयं च निश्चयज्ञानगोचरः सामान्यविशेषात्मकं वस्तु, तत्रैव सङ्केतकरणात् सकेतितस्य चाभिधेयत्वात् , सामान्यमात्रा-पोहयोः सकेतकरणेऽपि वैफल्यात् ।
एतेन व्यापकानुपलब्धिरपि प्रत्युक्ता, परोक्षस्यैव शब्दविषय- 20 त्वात् । यथा अनुमात्वाभेदेऽपि स्व-परार्थभेदः तथाऽत्रापि ।
__'एतेनेति शब्दस्य सामान्यविशेषवस्तुवाचकत्वेन व्यापकानुपलब्धिरपि प्रत्युक्ता या 1874 परैः शाब्दप्रत्ययस्य प्रामाण्यमपाफर्त प्रयुक्ता, यथा
___ "प्रमेयरूपं हि परिच्छिन्नं 'वस्तु प्रीपयत् प्रमाणमुक्तम् , प्रमेयं च विषयः प्रमाणस्येति विषयवतया प्रामाण्यं व्याप्तम् । ततो ये द्विषपवन भवति न तत् प्रमाणं 25 १ विजातीयव्यावृत्तेः ॥ २ विजातीयव्यावृत्तो परः ।। ३ न अगृहीतविशेषणा विशेष्ये बुद्धिः ॥ ४ पटाभावानिराकरणे । किमुक्तं भवति ! पटसद्भावनिश्रये सति अपटस्यैव निवृत्तिरेवरूपस्य नियमस्य पटनम् , नान्यथा ।। ५ तदवाय विषये सामान्य विशेषात्मनि शब्दसंकेत: ॥ ६ एतेन व्यापकानुपलब्धिरपि प्रत्युक्ता ॥ ७ प्रतिषेध्यं शान्दप्रत्ययस्य प्रामाण्यम् ॥ ८ परिच्छेद्यरूपम् ॥ ९ शातम् ॥ १० सत् ॥ ११ '२' द्वितीयाम्तम् ] ॥ १२ १' [-प्रथमान्तम् ] ॥ १३ ज्ञानम् ॥ १४ शानम् ॥ 30
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org