SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सामाम्य-विशेषात्मकं वस्तु शब्दस्य विषयः । १२३ 184A नन्वपोहो वस्त्वेव न भवति ततः का तत्र भेदाभेदचिन्तेति । अवस्त्विति । यद्यपोहेऽवस्तुरूपे शब्दसङ्केतस्तदा व्यवहारकाले शब्देन न किञ्चिदभिहितं स्यात् । ततस्तच्छब्दश्रवणानन्तरं वस्तुनि प्रवृत्ति-निवृत्ती न स्याताम् । मा भूतां नाम को दोष इति चेत् । उच्यते-प्रत्यक्षेति । आदिशब्दानिवृत्तिग्रहः । शब्दश्रवणानन्तरमर्थेषु प्रवृत्तिनिवृत्ती प्रत्यक्षप्रसिद्ध तावदवश्याभ्युपेये नापहवमहतः । ततो यदि शब्दो वस्तुविषयो 5 न स्यात्तदा तच्छ्रवणादर्थेषु प्रत्यक्षसिद्धे प्रवृत्ति-निवृत्ती न स्याताम् । न धवस्तुविषयात् षष्ठेन्द्रियविकल्पाद् वस्तुनि प्रवृत्यादि भवति । स्यान्मतम्-विकल्पदर्शित एवार्थे शब्दसङ्केत:, स एव तच्छ्रवणात् प्रतीयते, 184B तथापि वाह्ये प्रवृत्ति-निवृत्ती भवतो दृश्य विकल्प्पयोरमेदावसायात् । तदुक्तम् - " "ते तु स्वालम्बनमेवार्थक्रियायोग्यं मन्यमाना दृश्य-विकल्प्यावविकीकृत्य प्रवत्तन्ते"[ ]इति। 10 अत्राप्याह दृश्य-विकल्प्ययोरभेदाध्यवसायेनापि न बाह्ये प्रवृत्तिः, अतुल्यत्वात् । दृश्येति । दृश्योऽर्थः स्वलक्षणम् , विकल्प्योऽर्थः सामान्यरूपो विकल्पामासः, तयोरभेदावसायेनाऽपि न बाह्येऽर्थक्रियासमर्थे स्वलक्षणे प्रवृत्तिः स्यात् । तयोदृश्य-विकल्प्ययो- 15 रत्यन्त मेदेनाऽतुल्यत्वाद् विसदृशत्वात् । एकान्त मित्रयोह्यभेदाध्यवसायः कुनधित् साह185A इयात् । न यतिमुग्धधियोऽपि सीमन्तिनी-हस्तिन्योरभेदावसायो भवति । न च दृश्य-विकल्प्ययोः सादृश्यलेशोऽप्यस्ति, दृश्यस्यार्थक्रियाकारित्वेन परमार्थसत्वात् , विकल्पारोपितस्य चार्थक्रियासामर्थ्यराहित्येनाऽवस्तुत्वात् । ततः कुतो दृश्य-विकल्प्ययोरभेदाभ्यवसायः स्याद् येन शब्दादारोपितप्रतीतावपि बाह्य प्रवृत्ति: स्यात् ? तद् यद्य- 20 पोहे वस्तुन्यवस्तुनि वा शब्दसङ्कनः क्रियेत तदा शब्दश्रवणात् स्वलक्षणे प्रवृत्ति-निवृत्ती न स्याताम् । अपि च, शब्दविषयस्यालीकत्वं न शब्दोत्थे प्रत्ययेऽनुभूयते। न ह्ययमलीकप्रतिमासः संवेद्यते । तथात्वे वा बाह्य वस्तुनि प्रवृत्तिनं स्यात् । न वै अलीकमेत१ अवस्तुत्वे न किञ्चिवभिहितम् ॥ २ स चासौ शब्दश्च अवस्तुरूपापोहसंकेतितशब्द इत्यर्थः ॥ ३ 25 '६' [=षष्ठयन्तं विद्महे ।। ४ प्रत्यक्षसिद्धं च प्रवृत्त्यादि ।। ५ विकल्पदर्शितार्थप्रतीतावपि ।। ६ अर्थे ।। ७ प्रवर्त्ता(र्तिता)रः ॥ ८ स्वकीयविकल्पेनालम्बितमेव गृहीतमेवार्थमित्यर्थः ।। ९ दृश्य-विकल्प(रूप्य)योरभेदाध्यवसायेनापि न पाये प्रवृत्तिः ॥ १० शब्दात् प्रतीयमानस्यार्थस्येत्यर्थः ।। ११ ज्ञाने॥ १२ शब्दोत्थः प्रत्ययः ।। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy