________________
सामान्य विशेषात्मकं वस्तु शब्दस्य विषयः ।
१२१
1814 'जातीय' प्रत्ययेन चाप्रत्यक्षवर्त्तिनोऽप्यर्थान् शब्दांब समीपीकृत्य बालानां वृद्वैः सङ्केतः क्रियते एतजातीया अर्था एतजातीयशब्दवाच्या इति । ततो यद्यपि प्रत्यक्षवर्ती शब्दोऽर्थव देशान्तरे नास्ति तथापि तत्सदृशपरिणामेन तत्सदृशपरिणामस्याऽन्येनापि शब्देनान्यस्याप्यर्थस्य प्रतीतिर्भवति. 'जातीय 'प्रत्ययेन तेयोरपि सङ्केतका उपस्थापनात् प्रत्यक्षवर्त्तिशब्दार्थसदृश परिणामस्य देशान्तरवर्त्तिनामपि शब्दार्थानां 5 भावात् । तदाह- तुल्यपरिणामिता च प्रत्यक्षवर्त्तिशब्दार्थसदृशपरिणामत्रच देशान्तरचिनामपि शब्दार्थानामस्ति । तत् सदृशपरिणामेष्वर्थेषु सदृशपरिणामानां शब्दानां सङ्केतः क्रियत इति स्थितम् । एतेन यदुक्तम्
,
"शब्दाः सङ्केतितं प्राहुर्व्यवहाराय स स्मृतः ।
तदा स्वलक्षणं नास्ति सङ्केतस्तेनें तंत्र न ।” [ प्रमाणवा० १०६३ ] इति । 10 तत् प्रत्युक्तम् अर्थस्य द्रव्यतया नित्यत्वेन व्यवहारकालेऽपि सम्भवात् सङ्केतकालमाविशन्दसहरा परिणामस्यान्यस्यापि शब्दस्य वाचकत्वाभिधानात् ।
तदेवं स्वपक्षं व्यवस्थाप्य परपक्षं दूषयति
जातिमात्रे त्वनर्थक्रियाकारिणि न सङ्केतः । न खलु वै व्यसनमेवे तच्छब्द सङ्केतनं लोकस्य । किमु सर्व एवास्यारम्भः फलार्थ:, 15 निष्फलारम्भस्योपेक्षणीयत्वात् । न च जातिमात्रं दाह-वाहादावुपयुज्यते । विशेषापेक्षायां तु वरं सत्रैव सङ्केतः ।
181B
जातीति । अर्थक्रियाममर्थे सामान्य विशेषात्मनि वस्तुनि शब्दानां मङ्केतः, जातिमात्रे तु विशेष निरपेक्षे केत्रले सामान्ये वाह- दोहाद्यर्थक्रियां कर्तुमसमर्थे पुनर्न सङ्केतः । पतिमभिधातुं प्रस्तावनां रचयति-र्न खल्विति । खलुशब्दोऽवधारणार्थः । वै- 20 शब्दः पराक्षेपे । निःप्रयोजनं क्वचित्तात्पर्य व्यसनम् । नैव व्यसनमेवैतच्छब्दसङ्केतनं लोकस्य न हि लोकः फलनिरपेक्ष एवार्थेषु शब्दान् सङ्केतयति । किमु किन्तु सर्व एव 1820 नैकः कश्चिदस्य लोकस्यारम्भो हेयोपादेयवस्तुषु निवृत्ति-वृत्ती फलार्थ:, निःप्रयोजनारम्भस्योपेक्षणीयत्वात् । तदयमपि शब्दसङ्केतक्रियारम्भो लोकस्य सप्रयोजन एव । न
१६
१ शब्दार्थयोः ॥ २ तुल्यपरिणामिता व देशान्तरवर्तिनामप्यस्ति ॥ संकेतकाले ॥ ४ कुतः १ 25 क्षणिकस्वात् स्वलक्षणस्य ॥ ५ कारणेन ॥ ६ तत्र स्वलक्षणे ॥ ७ जातिमात्रे त्वनर्थक्रियाकारिणि न संकेतः || ८ न खलु वै व्यसनमेषैतच्छब्द संकेतनं लोकस्य । किमु सर्व एवास्यारम्भः फलार्थ:, निष्फलारम्भस्योपेक्षणीयत्वात् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org