________________
१२०
स्वोपाटीकासहित तव्यालङ्कारे द्वितीये प्रकाशे अत्राह
कश्चित् सर्वार्थवाचकत्वेऽपि यथासङ्केतक्षयोपशमं सर्वत्र प्रवृत्तिः । ___ कथञ्चित् सर्वार्थवाचकत्वेऽपि शब्दानां यथासकेतक्षयोपशमं सङ्कतेन क्षयोपशमः सङ्कन
क्षयोपशमस्तस्यानतिक्रमेण यथासङ्केतक्षयोपशमं प्रवृत्तिरर्थेषु । यद्यपि सर्वे शब्दाः सर्वार्थ- 5 1798 वाचिन एव तथापि यावदर्थप्रत्यायने सङ्कतेन क्षयोपशमः प्रबोधितः शब्दात् तावत
एवार्थस्य प्रतीतिर्भवति । ततो यस्यैकार्थप्रत्यायने सङ्केतेन क्षयोपशमो जनितः स एकमर्थ प्रत्यायति, यस्यानेकार्थप्रत्यायने स युगपदनेकमपि । अत एव हरिशब्दश्रवणसमनन्तरं बहवोऽर्था युगपदपि प्रतीयन्ते । न च वक्तव्यं यदि शब्दस्यार्थप्रत्यायने स्वाभाविकी शक्तिस्तदा किमिति सङ्केतकरणमपेक्षत इति । यतो धूमः स्वभावेन 10 चह्निप्रत्यायनसमर्थोऽपि स्वाविनाभावपरिज्ञानापेक्षो दृश्यते । तद् यथा धूमः स्वतो
वह्निप्रत्यायनसमर्थोऽप्यविनामावपरिज्ञानमपेक्षते तथा शब्दः स्वतोऽर्थप्रत्यायनसमर्थोऽपि 180A सङ्केतकरणमपेक्षते । सङ्केतश्चैकस्यापि शब्दस्य प्रतिनियतोऽनुभूयते, यथा मालवादी
कर्कटिकाशब्दस्य फलविशेष,अन्यत्र तु योन्याम् । अत एव च सर्वार्थवाचकत्वेऽपि प्रतिनियतसङ्केतवशात् प्रतिनियतस्यैवार्थस्य शब्दादवगमः । अथ सर्वे शब्दाः सर्वार्थवाचिन 15 इति कथं प्रत्येयम् ? अनवगतसम्बन्धे शब्द प्रयुक्तं कमर्थ प्रतिपादयितुमनेन शब्दः प्रयुक्त इति श्रोतुरनेकार्थविषयसन्देहदर्शनात् । ___ तुल्यपरिणामेषु तुल्यपरिणामानां सङ्केतः-एतज्जातीया एतजातीयशब्दवाच्या इति । तुल्यपरिणामिता च देशान्तरवर्तिनामप्यस्ति ।
20 सम्प्रति यथाभूतेष्वर्थेषु यथाभूतानां शब्दानां सङ्कतः क्रियते तदाह-तुल्यपरिणामेषु 180B वाच्येषु तुल्यपरिणामानां वाचकानां सङ्केतः समयो वृद्धः क्रियते सजातीयेष्वर्थेषु सजातीयाना
शब्दानां सङ्केत: क्रियत इत्यर्थः । सङ्केतकरणोल्लवं दर्शयति-एतदिति । एष प्रकारो येषां ते ऐतज्जातीयाः । "प्रकारे जातीयम्" [ सि० ७-२-७५] इति जातीयः । एतजातीया एवंविधा येऽर्थास्ते एतज्जातीयशव्दवाच्या एवं विधशब्दविषया भवन्तीत्येवं 25 सकत: शब्दस्यार्थे क्रियते । अयमर्थ:- एकमर्थ शब्दं च प्रत्यक्षवर्तिनमेतदा उपदर्य १ कथञ्चित् सर्वार्थवाचकत्वेऽपि यथासङ्केतक्षयोपशमं सर्वत्र प्रवृत्तिः ॥ २ ७' [-सप्तम्यन्तम् ] ॥ ३ तुल्यपरिणामेषु तुल्यपरिणामानां संकेत: ॥ ४ एतजातीया एतजातीयशब्दवाच्या इति ॥ ५ एतच्छन्देन ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org