________________
सामान्य-विशेषात्मकं वस्तु शब्दस्य विषयः । ११९ न चैते निरभिधेया एव, अस्खलत्प्रत्ययजनकत्वात् । न खलु शब्दादर्थं प्रपद्य मरीचिकासु जलमिव मिथ्येति जुगुप्सते । कचिद् विसंवादोऽन्यत्रापि समः ।
ने चैते विचारयितव्यतया प्रस्तुताः शब्दा निरभिधेया एव, अस्खलत्प्रत्ययजनकत्वात् । अस्खलतो वाह्यार्थाविनाभाविनः प्रत्ययस्योत्पादकत्वात् । यदि हि घटशब्दो घटा- 5 भिधेयो न भवति तदा किमिति घटशब्दश्रवणसमनन्तरं घटार्थाविनाभावी प्रत्ययः
समुत्पद्यते । तद् घटविषयमस्खलितं प्रत्ययमुपजनयन् घटध्वनिर्घटाभिधेय एव ।। 178 अस्खलितत्वमेव भावयनि-नै खस्विति । मरीचिकासु जलमिवेति वैधर्म्यनिदर्शनम् ।
यथा हि ग्रीष्मे वासरेषु तरुणदिवसकरकरनिकरव्य तिकरस्फुटदुत्तमाङ्गो बहुवाहिताध्वाऽचगो मरुमरीचिका जलत्वेनावबुध्य मानपानादिजलक्रिया अप्राप्नुवन् 'नतज्जलं किन्तु 10 मरीचिकाः, तन्ननमेष जलप्रत्ययो मिथ्या, भ्रान्तोऽहमस्मि' इत्येवं निन्दति नैवं शब्दार्थ प्रतिपद्य प्रतिपना 'नामुमर्थ शब्दादहमधिगतोऽस्मि, कि तर्हि ? हेत्वन्तरात्' इति शन्दसम्भवं बाह्यार्थप्रत्ययं जुगुप्सते । तद् बाह्यार्थाविनाभाविप्रत्ययोत्पादकत्वेन शब्दो बाह्यार्थाभिधेय एव ।
यदि शब्दा बाह्यार्थाविनामाविनः कथं तद्यथं विनाऽपि क्वचिच्छब्दोच्चारणं 15 1783 दृश्यते, तस्मानिरभिधेया एवैत इति । अत्राह-क्वचिद् देशेऽवस्थायां वा विसंवादः
शब्दस्याऽन्यत्रापि प्रत्यक्षादौ समः । यद्येकदेशव्यभिचारदर्शनेन सर्वत्रापि व्यभिचार एव स्यात्तदा मरीचिकायां जलज्ञान व्यभिचारि दृष्टमिति सर्वत्रापि व्यभिचार्येव स्यात् । अथ विशुद्धहेतुजस्य प्रत्यक्षस्य कचिदपि व्यभिचारो नास्त्येवेत्युच्यते तदाऽऽतप्रणीतस्य शब्दस्यापि क्वचिदप्यर्थव्यभिचारो नास्तीति स कथप्रर्थाविनाभावी नेष्यते ? वयं ह्याप्त- 25 प्रणीतम्यैव शब्दस्यार्थाविनाभावमातिष्ठामहे न सर्वस्य । न चाप्तप्रणीतः शब्दः कचिदप्यर्थ व्यभिचरति ।
ननु शब्दस्य किमेकार्थप्रत्यायनेऽनेकार्थप्रत्यायने वा शक्तिः। यद्येकार्थप्रत्यायने तदा सकतशतैरपि ततोऽर्थान्तरे प्रतीतिर्न स्यात् , धूमादनग्निप्रतीतिवत् । अथानेकार्थप्रत्यायने तदा युगपत् ततोऽनेकार्थप्रतीतिप्रसङ्गात् प्रतिनियतेऽर्थे प्रवृत्तिन स्यादिति। 25 १न ते निरभिधेया एव ॥ २ न खलु शब्दादर्थ प्रपद्य मरीचिकासु जलमिध मिथ्येति जुगुप्सते ॥ ३ क्वचिद् विसंवादोऽन्यत्रापि समः ॥ ४ * इत परं ग्रन्थकाराभ्यामेव पूर्व लिखित्वा पश्चात् [ ] ईदृशे कोष्ठके निक्षिप्य ईदृशः पाठः परित्यक्त:
तितो यदि क्वचिद् व्यभिचारदर्शनेन [179 A] शब्दस्य सर्वत्राप्र्थव्यभिचार एवेष्यते तदा प्रत्यक्षस्यापि तथाभावः प्राप्नोति । अथ न्यभिचारदर्शनेऽपि प्रत्यक्षविशेषस्य प्रामाण्यमिभ्यते तदा शब्दस्यापि 30 तथाभावोऽस्त्विति ।। ५ घटाम्तरे ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org