________________
१८
176A
म्योपज्ञ टीकामहिते द्रव्यालङ्कारे द्वितीये प्रकाशे 1735 धर्मधर्मिणोः कथश्चिदप्यभेदो नास्ति, तयोरेकान्तेन भेदादिति चेत् । न । सम्बन्धा
भावेन 'अस्यामी धर्मिणो धर्माः' इति व्यपदेशाभावप्रसङ्गात् । समवायनिमितत्वे च व्यपदेशस्यान्यत्रापि प्रसङ्गः, समवायस्यैकन्वेन सर्वत्रापि सम्भवात् । कार्यकारणभावस्त सम्बन्धो घटत एव न, सहभावित्वात् । तस्माद् 'अस्यामी' इति व्यपदेशान्यथानुपपझ्या धर्मधर्मिणोः कथञ्चिदभेद एव । अंत एवैकान्ताभेदोऽपि नानयोरभ्युपेयः, शन्द- 5 प्रन्ययान्तराणां वैयर्थ्य प्रसङ्गाच्च । एकनैव हि शब्देन ज्ञानेन वा द्रव्याभेदिनां धर्माणामभिधाने परिच्छेदने वाऽपरं शब्दान्तरं ज्ञानान्तरं वा प्रवर्त्तमानं किमसाध्यं साधयेत् ? तेद् धर्मिणो धर्मा न भेदिनो नाप्यभेदिनः, किं तर्हि ? स्यादभेदिन इति परमार्थः ।
अंत एवेति । यत एव द्रव्यस्य स्यादभेदः पर्यायेम्योऽत एव नीलोत्पलादिधनीनामभिधेयभेदेऽपि गुण-जातिभेदेन सामानाधिकरण्यं भवति । भिन्ननिमिस प्रयुक्तस्य शब्द. 10
स्यै कस्मिन्नर्थे प्रवृत्तिः सामानाधिकरण्यमुच्यते । नीलशब्दो हि नीलपर्यायमभिधत्त 1768 उत्पलशन्दस्तु सदृशपरिणामलक्षणामुत्पलत्वातिम् । नीलपर्याय-सदृशपरिणामौ तु द्रव्यात्
कथञ्चिदभेदिनौ, ततस्तदभिधायिनी ध्वनी तयोः प्रवर्त्तमानौ कथश्चित्तभिन्न द्रव्येऽपि प्रवर्तेते इति मिनप्रतिनिमित्तयोः शब्दयोरेकत्र प्रवृतिरस्तीति सामानाधिकरण्यं घटत एव । न केवलं सामानाधिकरण्यम् , "विशेषणविशेप्यता च धर्मधर्मिणोरत एव भवति । 15
विशेषणविशेष्यभावे सत्येव सामानाधिकरण्यम् , विशेषणविशेष्यभावस्तु पटस्य रक्तत्व. 177A मित्यादौ सामानाधिकरण्यं विनाऽपीत्यसौ पृथगेवोपपाद्यते । यावतांशेन पटाद्धर्मिणो
रकत्वं धर्मो भिद्यते तावता पृथक् शब्देनोच्यते । यावता चाभिन्नं तावता तादाम्यसम्बन्धनिबन्धना पष्ठी विभक्तिभवति । तस्मादमधर्मिणोविशेषण विशेष्यभावोऽपि कथश्चिदभेदनिबन्धन एव । तदेवं शब्दानां परमार्थसहस्तुविषयत्वेऽपि लिङ्ग वचन मेदादि 20 मर्वमुपपद्यत एव ।
स्यान्मतिः-यः शब्दान् सामान्येन साभिधेयानभिमन्यते तं प्रति 'सामान्य विशेषात्मकं वस्तु शब्दस्य विषयः, द्रव्य-पर्यायाणां भेदा-भेदनिबन्धनो वचनभेदः' इत्यादि 177B गदितं वल्गुतां दधीत, यः पुनः शब्दानामभिधेयमेव किश्चिमेच्छति तं प्रति जनुषा
प्रति नर्तकीचतुराङ्गहारकरणप्रयास इव सनमपि गदितं फल्गुतामेवाञ्चतीति ।
25
अत्राह१ परः ॥ २ 'अस्यामी धर्मिणो धर्माः' इति व्यपदेशामावग्रसङ्गादेव ॥ ३ धर्मधर्मिणोः ।। ४ शान | ५ '५' [-पञ्चम्यन्तम् ] ॥ ६ अत एव शब्दानामभिधेय भेदेऽपि मामानाधिकरण्यम् ॥ ७ नीलगुणलक्षणं पर्यायम् ॥ ८ जातिरपि पर्यायो भण्यते जनमते ॥ ९ नीलपर्यायसदृशपरिणामाभिधायिनी ॥ १० नीलपर्याय-सदृशपरिणामाभिनेऽम्जादौ द्रव्ये ॥ ११ ननु सामानाधिकरभ्यविचारेणेव विशेषणविशेष्य- 30 भावविचारस्य गतस्वात् किमित्यसौ सूत्रेण पृथगुक्त इत्याशक्याह ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org