________________
सामान्य-विशेषात्मकं वस्तु शब्दस्य विषयः । एवं च वस्तुमाहात्म्याच्छब्दशक्तिस्वाभाच्याच कश्चिच्छन्दः पुल्लिङ्गः, कश्चित् स्त्रीलिङ्गः, कश्चिनपुंसकलिङ्गः, कश्चित् पुंस्त्रीलिङ्गः, कश्चित् पुन्नपुंसकलिङ्गः, कश्चित स्त्रीनपुंसकलिङ्गः, कश्चित् त्रिलिङ्गः, कश्रिद्वाच्यलिङ्गः, तथा कश्चिदेकवचनान्तः, कश्विद् द्विवचनान्तः, कश्चिद् बहुवचनान्तश्च समयानुमारिभिर्व्यवहियते ।
वचनभेदघटने युक्तिमाह-द्रव्यस्येति । पर्यायेभ्यो धर्मेभ्यः स्यात् कथश्चिदभेदाद् 5 174B द्रव्यस्य धर्मिण: । द्रव्यस्य हि स्वकीयमेकत्वमस्ति अनन्तपर्यायाभेद निबन्धन मनेकत्वमपि ।
तत एकत्वार्पणायामेकवचनान्तेन धनिनाऽभिधीयते, अनेकत्वार्पणायां तु बहुवचनान्तेन, यथा धर्मप्रजासम्पन्न दारे नान्यं कुर्वीत, इमे दाराः, एको वल्वजो बन्धनेऽसमथः, इमे वल्वजाः, एका सिकता तैलदानेऽसमर्था, इमाः सिकता: । तस्यां सुमनसि, इमाः सुमनसः । समायां तु दिनसमुदायव्यक्त्येकत्वानेकत्वे निबन्धनम्-तृतीयस्याः समायास्तु, 10 इमाः समाः। वर्षाणां तु दिनबहुत्वमेव-इमाः वर्षाः । एकत्वानेकत्वार्पणायां तु वस्तुमाहात्म्य शब्दशक्तिश्च प्रमाणम् ।।
ननु स्वगतैकत्वार्पणायामेकवचनान्तस्य पर्यायाभेदलब्धानेकत्वार्पणायां तु बहुवचनान्तस्य शब्दस्य द्रव्ये प्रयोगोऽस्तु, द्विवचनान्तस्य कथं यथा गोदौ ग्राम इति ।
उच्यते-गोदयोहदयोरदरभवत्वाद् द्वित्वाविष्टो गोदध्वनि मे उपचर्यते । अथवा समु. 15 175A दाय-समुदाथिनोभदा-ऽभेदार्पणे द्वे अपि युगपदेवात्र कृते इत्यर्पणाद्वयगतं द्वित्वमालम्ब्य
ग्रामे द्विवचनान्तस्य ध्वनेः प्रयोगः । तत्र केचिदाविष्टैकवचना यथा परस्परान्योन्येतरेतरशब्दाः । कश्रिदाविष्टद्विवचनो यथा गोदशब्दः । केचिदाविष्टबहुवचना यथा वर्षा-मघा-ऽप्-कृत्तिकाशब्दाः । अन्येषां तु यथावृद्धाम्नायं वचनभेदः । लिङ्गं पुनर्यदाऽर्थधर्मो विवक्ष्यते तदा सर्वार्थानां सर्व सदपि यथावृद्धाम्नायं केनापि शब्देन क्वचित् 20 किश्चिदुच्यते । यदा पुनः शब्दधर्मस्तदापि वृद्धाम्नायापेक्ष एव प्रयोगः। तस्मादेकस्मिनपि दारादिवस्तुनि द्रव्य-पर्यायाणां कथश्चिदभेदनिबन्धनो वचनभेदो घटत एव । १ द्रव्यस्य स्यादभेदात् पर्यायेभ्यः ॥ २ एकत्वविवक्षायाम् ॥ ३ - दाग्यन्ति दीयन्ते वा एभिरिति दाराः पुंलिङ्गो बहुवचनान्तश्च । एकवचनान्तोऽपि दृश्यते, यल्लक्ष्यम्-“धर्मप्रजासम्पन्ने दारे नान्यं कुर्वीत" [ ] इति" इति अभिधानचिन्तामणिस्योपज्ञवृत्तौ श्लो० ५१३ । “वल्वजाः पुंसि बहु- 25 वचनान्तः" इति अभिधानचिन्तामणिस्वोपक्षवृत्तौ श्लो० ११९४ । “अहंपूर्विकादिवर्षा मघा अकृत्तिका बहौ । वा तु जलौकाप्सरस: सिकता सुमनः समाः ।। ९ ॥” इति लिङ्गानुशासने स्त्रीलिङ्गाधिकारे ॥ ४ ननु सर्वव्यपर्यायार्पणायामेकवचन द्विवचने स्याताम् , समा तु षष्टयधिकदिनशतत्रयं भण्यते, तत्र तु का द्रव्य-पर्यायार्पणा इत्याशङ्कयाह-समेति ॥ ५ दिनसमुदायकत्वं दिनव्यक्त्यनेकत्वं च एकवचन-द्विवचनयोर्निबन्धनमित्यर्थः ॥ ६ गोदशब्दस्य द्विवचनान्तस्य ग्रामलक्षणे द्रव्ये कथं प्रयोगोऽस्तु १ ।। 30 ७ उपचार निरपेक्षोऽयं पक्षः । यतः स्वतन्त्र एव संकेतवशाद् गोदशब्दो विशिष्टे ग्रामे वर्तते, द्वित्वसाधने तु युक्तिरुपन्यस्ता ॥ ८ दृश्यतां टि० ३ ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org