________________
११६
स्वोपाटीकासहित द्रव्यालद्वारे नितीये प्रकाशे
यदि शब्दाः परमार्थसद्वस्तुविषयास्तदा खस्य स्वभाव इत्यत्र व्यतिरेकषष्ठयाः कि निबन्धनम् ? न खलु व्योनो भिन्नः स्वभावः कश्चिदस्ति यो व्यतिरेकविभक्त निमित्तं स्यात् । तदुक्तम्
____"खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् ।" [प्रमाणवा ० ११६८] इति । अत आह
__ यतो धर्मादिभ्यो व्यावर्तते व्योम स स्वभावः । स एव च प्रत्ययनिमित्तम् ।
यत इति । येन केनापि रूपेण धर्माधर्मात्मपुद्गलेभ्यो व्यावर्त्तते व्योम पृथगेव 173B द्रव्यमिति व्यपदेशं लमत इत्यर्थः । स व्योम्नः स्वभावः । स एव चेति य एवं
विजातीयव्यक्तिव्यावर्तकः स्वभावः स एव प्रत्ययस्य षष्ठीलक्षणस्य त्वस्य वा 10 निमित्तं हेतुः । अयमर्थ:-अवगाहदातृत्वं नाम व्योम्नोऽसाधारणो धर्मोऽस्ति । धर्माश्च धर्मिणः सकाशाद् भिन्ना-ऽभिन्नाः । ततो यदा भेदार्पणा क्रियते तदा षष्ठी वो वा भवति-खस्य स्वभावः खत्वमिति वा । अभेदार्पणाकरणे तु खमिति । . सर्वलिङ्गसङ्खये च दारादिवस्तुनि लिङ्ग-वचनभेदो नातिदुर्घटः, द्रव्यस्य स्यादभेदात् पर्यायेभ्यः । अत एव शब्दानामभिधेय- 15 भेदेऽपि सामानाधिकरण्यं विशेषणविशेष्यता च ।
___ यदि परमार्थसद्वस्तुविषयाः शब्दास्तदा कथमेकस्मिन्नप्यर्थेऽभिधेये शब्दाद् बहुवचनं
कथं वा शब्दस्य त्रिलिङ्गत्वमिति । अत्राह-सेर्वेति । सर्व लिङ्गं पुंस्त्रीनपुंसकलक्षणं 174A सर्वा सङ्ख्या एक-द्वि-त्रिलक्षणा यस्य तस्मिन् दारादिवस्तुनि, आदिग्रहणात् सिकता-तट
वाटादिग्रहः, लिङ्ग-वचनभेदो नातिदुर्घटः । सर्वाण्यपि हि वस्तूनि सर्वलिङ्गानि सर्वसायानि 20 चेति सर्वज्ञसिद्वान्तः, एकत्रापि अर्थ-वस्तु-मात्राशब्दप्रयोगात्-यथा घटार्थः, घटवस्तु घटमात्रेति । न चैवं सर्वशब्दानां सर्वलिङ्गता । न हि वस्तु सर्वस्य शब्दस्य सता सर्वेण रूपेण वाच्यम् , अपि तु कस्यचित् केनचिदेव रूपेणे । यथेन्द्रियस्य कस्यचित् केनचिदेव रूपेण विषय: शब्दस्यापि तथाविध एव स्वभावो यो न सर्व वस्तुरूपमुपगृह्णाति अन्यथा शब्दान्तराप्रयोगप्रसङ्गः ।
25 १ सम्बन्धषष्ठयाः ॥ २ खस्य भावः ॥ ३ यतो धर्मादिभ्यो व्यावर्तते व्योम स स्वभाषः।। ४ स एव च प्रत्ययनिमित्तम् ।। ५ त्वप्रत्ययो वा ॥ ६ सर्वलिङ्गसङ्खये च दारादिषस्तुनि लिङ्गपञ्चमभेदो नातिदुर्घटः ॥ ७ एकस्यापि बहुत्वम् ॥ ८ पदार्थे ॥ ९ कर्तुः ॥ १० शब्दस्य ॥ ११ वस्तु वाच्यमिति सम्बन्धः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org