________________
सामान्य-विशेषात्मकं वस्तु शब्दस्य विषयः । ननु यदीन्द्रियजविकल्पविषय एव शब्देविषयस्तदा कथमिन्द्रियजविज्ञान इव शम्दश्रवणात् स्पष्टो । प्रतिभासत इति ? उच्यते-अस्पष्टता त्वक्षाव्यापारादिति । यदयं सामान्य विशेषात्मक इन्द्रियजावज्ञान विषयः शब्दादस्पष्टः प्रतीयते तत्रेन्द्रियाव्यापाग निबन्धनम् । विभिन्नशक्तीनि हि करणानि नैकशक्तीनि । ततो यथा कुण्ठधारात् कुठारादवनीरुहशाखाभेदो भवनपि विषमचिरकालं सप्रयासं च भवति, निशितासि- 5 लतातः पुनः समः शीघ्रमप्रयासं च, तथा सामान्य विशेषात्मकमर्थमात्मा प्रतियनिन्द्रियेण करणेन स्पष्टं प्रत्येति, शब्देन पुनरस्पष्टम् । प्रत्येतव्यः पुनरुभयत्राप्येकै एव ।
दृरा-ऽऽसन्नतादिभिरैन्द्रियस्याभासभेदेऽपि न गोचरभेदः । अर्थक्रियाक्षमं तु शब्दादपि तदेव समानपरिणामात्मनां सत्त्वात् ।
ननु यः क्वचिद्वस्तुनि यन्प्रतिभासाद् विभिन्न प्रतिभासो नासौ तेनैक विषयो यथा 10 172A घटप्रतिभासात् पटप्रतिमासः । तथा च गवि प्रत्यक्षप्रतिमासाद् विपरीतप्रतिमासैः शाब्दः
प्रत्यय इति । तन्न । यस्माद् दूरा-5ऽसन्नतादिभिरिन्द्रियज्ञानस्याभासभेदेऽपि प्रतिभासभेदेऽपि न गोचरभेदः । दूरे दूरतरे आसन्ने आसन्नतरे चेन्द्रियेऽस्पष्टमस्पष्टतरं स्पष्टं स्पष्टतरं च वृक्षादिरर्थः प्रतिभासतेऽथ च सर्वज्ञानानामेक एव ग्राह्यस्तवाभिमतस्तथा यद्यपि शब्देन्द्रियोत्थयोनियोः स्पष्टत्वा-ऽस्पष्टत्वाभ्यामाभासो भिद्यते तथापि गोचरकत्वमविरुद्धमेव । 15
स्यादेवम्-इन्द्रियज्ञानस्य दूगसन्नतादिभिः स्पष्टत्वा-ऽस्पष्टत्वाभ्यामेवाभासो भियते 1720 नार्थक्रियासमर्था ऽसमर्थरूपपरिच्छेदेन । दरे आसन्न वा स्थितो वृक्षादिरिन्द्रियज्ञाने
निजार्थक्रियाक्षमेण रूपेण निर्विशेपमेवाभासते । अर्थक्रियाक्षमरूपपरिच्छेदभेदेन च विषयनानात्वं व्यवस्थाप्यत इत्याह-अर्थक्रिया जलाद्याहरणादिका, तस्यां क्षमं पुर्नवस्तुनो रूपं शब्दादपि तदेव यदेवेन्द्रियात् प्रतीयते । इन्द्रियादपि घटो जलधारणादि- 20 समर्थः प्रतीयते, घटशब्दादपि । ततः कुतस्तैदुत्थयोनियोविषयवैचित्र्यं भवेत् ?
ननु शब्दात् प्रेतीयमानस्योपप्लवरूपस्य सामान्यस्य कुतोऽर्थक्रियाक्षमत्वमिति । 173A न । समानपरिणामात्मनां पदार्थानां सत्त्वात् , सदृशपरिणामवन्तो हि पदार्थाः शब्दस्य
विषयः, ते च परमार्थमन्तः, ततः कथं नार्थक्रिया भवेत् ।
१६' विग्रहे षष्ठयन्तम् ] || २ उत्पन्न विज्ञान इति गम्यम् ॥ ३ द्रव्यरूपतया एक एव । स्पष्टत्वा- 25 स्पष्टत्वाभ्यां धर्माभ्यां वैविध्यम् ।। ४ '६' विग्रहे षष्ठयन्तम् , यस्य प्रतिभासादिति भावः ॥ ५ अस्पष्टरूपः ॥ ६ दूरासन्नतादिभिरैन्द्रियस्याभासभेदेऽपि न गोचरभेदः ॥ ७ शाने ॥ ८ मन्मते स्पष्टत्वास्पष्टत्वे अर्थधमी, परमते ज्ञानधर्मी इति प्रमेयारूदिः ॥ ९ अर्थक्रियाशमं तु शब्दादपि तदेव ।। १० शानादि ॥ ११ इन्द्रिय-शब्दोत्थयोः ।। १२ बौदः ॥ १३ असत्यस्थ ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org