________________
११३
सामान्य-विशेषसाधनम् । यद्यपि गोत्व-गजत्वे एकत्रापि स्तस्तथाऽपि यदेव व्यक्त्या व्यज्यते तदेव प्रत्ययं जनयति, नान्यत् । व्यक्तिश्च प्रकृत्यैव गजत्वमेवाभिव्यक्ति, न गोत्वम् । ततः सर्वव्यापित्वेऽपि गोत्वस्य न दोष इति चेत् , न, 'को वेति, अविशेषे गोत्व-गजत्वे प्रति विशेषाभावे, पक्षपातो बहुमान: ? गोत्वमपि गजव्यक्ती समवेतं गजत्वमपि च
समवेतम् , किमित्यसौ गजत्वमभिव्यनक्ति न गोत्वम् ? सर्वथा निष्कारणोऽयं 5 170A पक्षपातो व्यक्तीनां कर्तुं न युक्तः । तेद् यदि सामान्यं सर्वगतं स्यात् तदाऽन्यत्रापि तत्प्रत्ययः स्यादिति ।
ततो यद नित्यं सद् यत् यत् प्रत्यकारणं न तत् तस्य समवायि, यथा घटः पटस्य । यत् पुनर्यस्य समवायि तदनित्यं सत् तत्कारणमेव, यथा द्रव्य-गुण-कर्मणां समवायिन: । अनित्याः सामान्य प्रत्यकारणं च गवाद्या व्यक्तयः, ततो न 10 सामान्यसमवायिन्यः । समवायित्वे नियमेन व्यक्तिजन्यस्वप्रसङ्गः, अनित्यसमवायिनो नियमेन जन्यत्वात् । सामान्यस्य साध्यत्वान्न व्याप्तिव्यभिचार इत्येवं व्यक्तिभ्यो भिमस्यैकस्य सामान्यस्याघटनात् सदृशप्रत्ययः प्रतिव्यक्तिपरिसमाप्तसदृशपरिणामनिवन्धन एवेति सिद्धम् । सम्प्रति प्रस्तुतमुपसंहरति
15 तत् सद्भूतसामान्यविशेषयाहिविकल्पाभासस्य वस्तुत्वम् ।
तदिति सद्भूतः प्रमाणाबाधितः स चासो सामान्यविशेषश्च तग्राहिविकल्पाभासस्य वस्तुत्वं परमार्थसत्यम् । सामान्य-विशेषात्मकं वस्तु परमार्थसदेवेत्यर्थः । एतेन परसिद्धान्तदूषणदानव्यसनिभिर्यदुक्तम्
"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः" ।
चोदितो दधि खादेनि किमुष्ट्र नाभिधावति ॥ १ ॥ १ को वाऽविशेषे व्यक्तीनां पक्षपातः ॥ २ ५' [ =तस्मात् ] ॥ ३ व्यक्तयः सामान्यस्य न समवायिन्यः अनित्या: सत्यः, सामान्य प्रति अकारणत्वात् । यद्यदनित्यं सद् यत् प्रति अकारणं न तत् तत् प्रति समवायि, यथा घटः पटस्येत्यनुमानस्थितिः । यद्वा इदमनुमानम्-विवादाध्यासिता व्यक्तयो नैकान्तभिन्न निरंशकसामान्यसमवायिन्यः, नानादेशस्वभावत्वात् , सर्वपदार्थवत् ॥ ४ सत्यः ॥ ५ अत्र उपसंहारे चकारः, यथा कृतकश्च 25 शब्द इत्यत्र ॥ ६ अनित्यसमवेतस्य वस्तुन इत्यर्थः ।। ७'५' तस्मात् ] । तत् सद्भूतसामान्य विशेषप्राहिधिकल्पाभासस्य धस्तुत्वम् ॥ ८ जैनसिद्धान्त ॥ ९. एते त्रयः श्लोका आचार्यश्रीहरिभद्रसूरिभिः अनेकान्तजयपताकायां प्रथमेऽधिकारे उद्धृताः ॥ १० वस्तुनः ॥ ११ सामान्यविशेषरूपत्वे ॥ १२ ५' [पञ्चम्यन्तम् ] ।।
170B
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org