________________
११२
5
स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे यद्यपि गोत्वस्याश्वादावपि समवायोऽस्ति तथापि तेषु गौरिति प्रत्ययो न भवति, एकत्र सामान्यद्वयबुद्धेश्योगादिति चेत् । न । अस्ति चैकत्रापि चतुष्पदि अश्वत्व-पशुत्वधीः । तद्ययकत्र सामान्यद्वयबुद्धेश्योगस्तदा अश्वत्वपशुत्वे द्वे सामान्ये कथमेकत्रैव धर्मिणि प्रत्ययद्वयं जनयतः । तदेकत्रापि सामान्यद्वयबुद्धेर्दर्शनाद् गोत्वं गजादौ समवेतं गोबुद्धिमपि जनयेत् ।
___ स्यादेवम्-अश्वत्व-पशुत्वे परस्परा विरुद्ध तत एकस्मिन्नपि प्रत्ययद्वयं जनयतो न 168B गोत्व-गजत्वे तयोविरोधादिति । न । विरोधित्वे च गोत्व-गजत्वयोः परस्परमभ्युपगम्यमानेऽसर्वगतत्वं स्यात् । न ह्येकत्र सकलाश्रयव्यापिनोविरुद्धयोयुगपदवस्थानसम्भवः ।
अथवा यदि गजत्वेन सह विरोधाद् गोत्वं गजे गोप्रत्ययं न जनयति तदा तत्र तदस्तीत्येतदपि कथं श्रद्धेयम , स्वकार्यमकुर्वत: सच्चसन्देहात् । कुतः ? विकलकारणस्य 10 समर्थस्वभावस्य हेतोः कार्यनिष्ठत्वात् , कार्ये निष्ठा तात्पर्य तदेकतानत्वं यस्य, तस्य भावस्तत्वम् , तस्मात् । गोत्वं हि स्वानुरूपप्रत्ययजननं प्रत्यविकलो हेतुः, ततो यदि गजादौ स्यात्तदाऽवश्यं गोप्रत्ययं जनयेत । न च जनयति, तस्मात्तत्र नास्तीति
निश्चीयते । ननु स्वव्यञ्जकन्यक्त्यपेक्षं गोत्वं कथं गजे गोबुद्धिजननं प्रत्यविकलं 169A स्यादिति । तम । समवाय निबन्धनस्य स्वत्वस्य गजेऽपि भावाद् गज एव व्यनकोऽस्तीति 15
न विकलत्वम् । ____ स्यान्मतम्-गोत्वं गजत्वं च द्वयमपि गजे समवेतमस्त्येव । तथापि गजत्वमेव खानुरूपं प्रत्ययं तत्र जनयति न गोत्वम् , गजत्वेनास्य प्रतिबद्धत्वादिति । तदयुक्तम् , नित्यैकरूपत्वेनाविचलितस्वमावस्य गोत्वस्य गगनस्येव प्रतिबद्धमशक्यत्वात् । अपि च, यथा गजत्वेन गोत्वं स्वानुरूपपत्ययजननं प्रति विकलं क्रियते तथा किमिति गोत्वेन 20 गजत्वं न क्रियते । एतदेवाह-गोत्वं वा गजत्ववैकल्यायाऽस्त्विति, ततश्च गजे गोबुद्धि
रेवैका स्यान गजबुद्धिः । 1698 अथवा गोत्व-गजत्वे द्वे अपि परस्परस्य वैकल्यं कुरुताम् । तदाह-अन्योन्यमिति ।
उभयं गोत्व-गजत्वं वैकल्यायास्त्रिति पूर्वेणव सम्बन्धः । तैत इति उभयोरपि गोत्वगजत्वयोः म्वानुरूपप्रत्ययजननं प्रति वैकल्यात् प्रत्ययानुत्पत्तिः, गोप्रत्ययस्य गजप्रत्ययस्य 25 च कारणवैकल्येनाऽनुन्पत्तिः स्यात् ।
१ अस्ति चैकत्रापि अश्वत्व-पशुवधी: ॥ २ विरोधित्वे चासर्वगतत्वम् ॥ ३ अविकलकारणस्य कार्यनिष्ठत्वात् ।। ४ चस [=चतुर्थः समासः, कर्मधारय इत्यर्थः] ।। 4 अन्योन्यमुभयं या ॥ ६ ततः प्रत्ययानुत्पत्तिः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org