________________
सामान्य-विशेषसाधनम् । बानमात्माश्रयाननते तदाऽनेकमेव । ऐतच काममनुजानीमः, प्रतिव्यक्ति भित्रस्य 'समाना इमा व्यक्तयः' इति प्रत्ययहेतोः समानपरिणामस्य परमार्थसतोऽभ्यनुज्ञानात् ।
सर्वगतत्वे चान्यत्रापि तत्प्रत्ययः स्यात् , समवायभावात् । स्वत्वमपि तन्निवन्धनम् । अस्ति चैकत्रापि अश्वत्व-पशुत्वधीः । विरोधित्वे चासर्वगतत्वम् , अविकलकारणस्य कार्यनिष्ठत्वात् । गोत्वं 5 वा गजत्ववैकल्यायाऽस्तु । अन्योन्यमुभयं वा । ततः प्रत्ययानुत्पत्तिः । को वाऽविशेष व्यक्तीनां पक्षपातः?
अथानेकत्वप्रसङ्गप्रतिभयादन्तरालव्याप्तिरिष्यते तदा सर्वगतत्वम् , सर्वगतत्वे च 167A सामान्यस्याऽन्यत्रापि पराश्रयेऽन्तराले वा तत्प्रत्ययः स्यात् , समवायभावात् । गोत्वं हि
स्वानुरूपं प्रत्ययं गोषु समवायादेव जनयति. स च समवायोऽन्यत्रापि गजादावस्ति सामा- 10 न्यस्य समवायस्य च व्यापित्वाभ्युपगमात् , ततो गोष्विव गजादावपि गोप्रत्ययः स्यात् ।
ननु गोत्वस्य गाव एव स्वव्यक्तयो न गजादयस्ततः कथं तेषु गोबुद्धि जनयेदित्याह स्वत्वमपि आत्मीयत्वमपि तन्निबन्धनं स समवायो निबन्धनं यस्य स्वत्वस्य
तत्तथा । गोत्वस्य हि गावस्तेषु समवायादेवात्मीयाः, समवायश्च गजादिष्वप्यस्ति, 167B ततस्तेऽप्यात्मीया एव स्युः । ततस्तेष्वपि गोबुद्धिः स्यात् । ततो यदाह-"अस्तु वा 15
सर्वगतं सामान्यम् , तच नाकाशवत् सर्वसंयुक्तम् , नापि सत्तावद् गोत्वाद्यपि सर्वसमवेतम् , किं तर्हि ? समिधिमात्रेण सर्वत्रास्ति यथाऽत्यन्ताभावः । तच सर्वत्रापि विद्यमानं यत्रैव समवेतं तत्रेवोपलब्धियोग्यम् । तेन तस्य समवाय्येवाधारो व्यत्रकबोच्यते । तन्न जातिसङ्करोऽपि" [ ] इति, तदात्मसिद्धान्तश्रद्धालुभाषितमित्युपेक्षामर्हति । यतो गोत्वस्य समायस्य च सनिधानं गवां गजादीनां चाविशिष्टं ततः किमिति 20 गोत्वं गोषु समवेतमुच्यते न गजादौ ? कथं वा व्यत्ययो न भवति-गजादौ गोत्वं समवेतं न गोष्विति । नूनमत्र पादप्रसारिकातो नान्यदालम्बनं सम्भावयामः ।
__ नन्वदृष्टविशेष: समवायस्य व्यवस्थानिबन्धनमस्ति, अदृष्टविशेषसामच्या हि गोपिण्ड एव गोत्वसमवायाः सम्पादितो न गजादिस्ततो नातिप्रसङ्गः इति । 168A एवं तर्हि सामान्यकल्पनापि क्लेशायैव, गोत्वाभावेऽप्यदृष्टविशेषवशाद् गोपिण्डानामेव 25
गोबुद्धिजननं प्रति शक्तत्वान्न गजादिपिण्डानाम् । तत् सर्वगतत्वे सामान्यस्य सम. वायसद्भावादन्यत्रापि तत्प्रत्ययः स्यात् । १ व्यक्तीः ।। २ सामान्यस्यानेकत्वम् ।। ३ सर्वगतत्वे चान्यत्रापि तत्प्रत्ययः स्यात् ॥ ४ स्वत्वमपि तन्निबन्धनम ॥ ५ गोषु ।। ६राशविषाणादीनाम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org