________________
स्वोपाटीकासहिते द्रभ्यालकारे द्वितीये प्रकाशे अन्याप्यान्मानमेतेम्मै चपलप्रीतये ततः ।
अर्पयन्ती परित्यागशङ्कया हृदि तर्कयेत् ॥ इति । 1668 तस्माद्यदि सामान्य स्वाश्रयमात्रव्यापि तदा हेतुशतैरप्युत्पद्यमानव्यक्ती न
सम्मवति । ततो यदुक्तं "विचित्रा हि पदार्थानां शक्तिः, तेन सामान्यस्यैवेशी शक्तिर्यया हेतुविशेषेरुत्पद्यमानेऽर्थे पूर्वस्थानादचलदेव वर्तते, चलने हि पूर्वस्थानं 5 तच्छ्न्यं स्यात्" [ ] इति, तद् देष्टिकमापितमिव लक्ष्यने । यदि हि परोपन्यस्तदूषणोपद्रवोपद्रुतैः शक्तिवैचित्र्यमन्त्रानुस्मरणं शरणं क्रियेत तदा स्थिता वादप्रतिवादसङ्कथा, शक्तिवैचित्र्यमन्त्रानुम्मरणस्य हलधरजनेनापि शक्यक्रियत्वात् ।
___ ननु मूर्तस्यायं स्वभावो यदेकत्र सर्वात्मना स्थितं स्थानान्तरमाकामितुं न समर्थायते । अमूर्त च सामान्यम् । तद्यदि पूर्वस्थानादचलदपि स्थानान्तरमाकामेदा- 10
क्रामतु नाम को विरोध इति ? तदपि न । एवं ह्यात्मनां विभुतां प्रकल्या(लप्या १)लम् । 166A सा हि गुणत्वेनादृष्टानां स्वाश्रयसम्बन्धं विना साक्षाद् द्रव्यान्तरेरसम्बन्धादसम्बद्धस्य च
हेतुत्वप्रक्लप्सावतिप्रसङ्गादग्न्यायुद्धज्वलनादीनां च सर्वात्मसाधारणादृष्टकतत्वात् पर्यकल्पि । एत तां विनाऽपि घटामश्चते, अदृष्टानां त्वन्मतेनामूर्तत्वेन दूरस्थितानामपि हेतुत्वघटनात् । मूर्तानामेवायं स्वभावो यद् दवीयोदेशस्थितानामहेतुत्वं नाम नामिति वाचोयुक्तत्रापि 15 सुखोचारणीयत्वात् । अतिप्रसङ्गोपद्रवोऽपि अमूर्तत्वमन्त्रानुम्मरणादेव प्रतिधानिष्यते ।
अथैवमाचक्षीथाः-यथा न किमप्यमूर्त सत् व्यवधानेन कस्यचिद्धेतरुपालाभीति कथमदृष्टानां तथाभावो विभावयितुं शक्यते इति । एवं तर्हामृतं सत्र किमपि
पूर्वस्थानादचलदपि स्थानान्तरमाक्रामदुपालम्भीति सामान्यस्यापि कथं तथाभावो 166 विमावयितुं शक्यताम् । तस्मादमूर्तत्वमपि पूर्वस्थानादचलतः सामान्यस्य स्थानान्तराक्रमणे 20 शरणं भवितुं नार्हति ।
अपि च, यदन्तरालेप्ववर्तमानमेककालमनेकेषु वर्तते तदनेकमेव, अन्तरालाव्यापिनो" युगपदनेकवर्तिनोऽनेकभाजननिषण्णनारङ्गफलानामिवानेकत्वनान्तरीयकत्वात् । यत् पुनरेकं सद् युगपदनेकेषु तदन्तरालानि व्यामोत्येव, एकस्य युगपदनेकवत्तिनो मन्दारदामदोरस्येवाऽन्तरालव्याप्तिनान्तरीयकत्वात् । ततो यदि सामान्यमन्तरालान्यनन· 52 १ सामान्याय ॥ २ * 166 संख्याके द्वे पत्रे, तत्र एकम् इतः परं 166 A पत्रे लिखिरवा घृष्ट दुष्पठम् ।। ३ सामान्यम् ।। ४ दिष्टं देवं प्रमाणमस्य ।। ५ पर्यकल्पीति उत्तरेण सम्बन्धः ।। ६ पुण्यपापानाम् ।। ७ आश्मा ।। ८ -तृतीयान्तम् , 'स्वाश्रयेण सम्बन्धं विना' इत्यर्थः॥९ तापा(१)दिभिः ॥१० विभुताम् ।। ११ यदि असम्बद्रोऽपि हेतुस्तदा विवक्षितादन्योऽपि कथं न हेतुरित्यतिप्रसङ्गः॥ १२ व्यवधानेन कारणभावः ।। १३ व्यक्तिगतसामान्यपक्षमाश्रित्य ॥ १४ '६' षष्ठयन्तम् ] ||
31
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org