________________
स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे
ने चेति, रूपस्य स्वभावस्यानतिक्रमेण यथारूपं यथासामान्यस्वभावमित्यर्थः, 163A अन्यस्य सामान्यस्य धीर्बुद्धिः । येयं सामान्यविषया बुद्धिस्त्वयेष्यते सा यथा सामान्यस्य स्वरूपं तथा नोपजायत इत्यर्थः । वर्णादिग्रहणपरिणामसंवेदनादिति । वर्णः सितपीतादिः दे: । आदिग्रहणात् संस्थानादिग्रहः । 'गौरयं गौरयम्' इति प्रत्ययस्य वर्ण संस्थानग्रहणपरिणामः संवेद्यते, सामान्यं चामूर्त्तत्वेन वर्ण-संस्थानरहितम् ततोऽसौ प्रत्ययः 5 कथं सामान्यविषयो घटेत ? न हि रक्तपटग्रहणपरिणामस्य ज्ञानस्य सितः पटो विषयीभवति ।
१०८
नन्वयं वर्ण-संस्थानप्रतिभासः सामान्यज्ञाने व्यक्तिकृतो न सामान्यकृतः । 1638 सामान्यज्ञाने हि विशेष्यत्वेन व्यक्तयो विशेषणत्वेन च सामान्यमवभासते । तत् कृतो न यथारूपं धीर्भवतीति ? न, व्यक्तेरिति । यदि सामान्यज्ञानस्य वर्णादिप्रतिभासो 10 व्यक्तेः सम्बन्ध्यभ्युपगम्यते तदा तुल्यतापि सामान्याकारामासोऽपि तस्या एव व्यक्तेरेव सम्बन्धी अस्तु । यदि व्यक्तिकृतः सामान्यज्ञानस्य वर्ण-संस्थानादिप्रतिभास इष्यते तदा समानाकारप्रतिभासोऽपि तत्कृत एवेष्यताम्, पूर्यते सामान्येन ।
कथं च स्वाश्रयमात्रव्यापिनः सामान्यस्यान्योत्पत्तौ सम्भवः, स्वव्यक्त्यभावेऽभावात् नित्यत्वात् व्यक्तिशून्यतापादात् ।
अपि च, इदं सामान्यं यदि स्वाश्रयमात्रव्यापि तदा कैथं च स्वाश्रयमात्रव्यापिनः स्वव्यक्तिष्वेवावस्थायिनः स्वव्यक्त्यन्तैरालाडव्यापिन इत्यर्थः सामान्यस्याऽन्योत्पत्तावन्यस्या 1644 व्यक्तेरुत्पादे सति सम्भवः स्यात्, "स्वव्यक्त्यभावे स्वाश्रयाभावेऽभावात् सामान्यस्या ' सच्वात् । नैवोत्पन्नव्यक्तिदेशे हि पूर्व सामान्यं नास्ति व्यक्त्यभावे तस्यासच्चात्, अतः कथं नवोपभव्यक्तेः पूर्वोत्पन्न व्यक्तिसादृश्यं सम्भवेत् ?
नुन स्वरूपसच्चा सर्वयोः सामान्यं व्यक्तिमपेक्षते किन्तु सम्बद्धत्वे । ततो व्यक्तयभावे सामान्यं नास्तीति कोऽर्थः ? असेतीभिर्व्यक्तिभिर्न सम्बध्यते । न तु स्वरूपत एव नास्ति । अथैवं वितर्कयेः- पूर्वमसम्बद्धं पश्चात् कथं सम्बध्यते नित्यैकरूपत्वादिति ? व्यक्तिभावादिति ब्रूमः असम्बन्धस्य व्यक्त्यभावप्रयुक्तत्वात् । तस्मादभिनवोत्पन्नव्यक्तीनां पूर्वोत्पन्नव्यक्तिभिः सादृश्यं सम्भवत्येव, सामान्यस्य पूर्वमपि सम्भवादिति । 25
१ न च यथारूपमभ्यधीः ॥ २ व्यक्तेर्वर्णादिप्रतिभासे तुल्यतापि तस्या पषास्तु ॥ ३ कथं च स्त्राश्रयमात्रव्यापिनः सामान्यस्यान्योत्पत्तौ सम्भवः || ४ * "न्तराव्यापिनः' इति पूर्व पाठो लिखित आसीत्, पश्चात् तं संशोध्य पाठोऽयं ग्रन्थकाराभ्यामेव लिखितः ॥ ५ स्वव्यक्त्यभावेभावात् || ६ विषये ॥ ७ नैया ॥ ८ '७' [ = सप्तम्यन्तम् ] ॥ ९ सह ॥
Jain Education International 2010_05
15
For Private & Personal Use Only
20
www.jainelibrary.org