________________
सामान्य-विशेषसाधनम ।
१०७ पदार्थवन्तोऽमी भावा इत्येवं प्रत्ययः स्यात् , न समाना इत्येवम् , यदि सत्यं सामान्यनिबन्धनः समानप्रत्ययः पदार्थेषु ।।
__भूतवत् कण्ठे गुणेनेति निदर्शनम् , भूतानि ग्रह-नक्षत्राणि, तेषां कण्ठे दीर्थों गुणोऽर्चनार्थ निबध्यते, तेनैकेन कण्ठे गुणेन यथा भृतानि तद्वन्तीति गृह्यन्ते न तु समानानीति तद् मावा अपि सामान्यवन्त इति गृह्येरन् ।
___हिर्यस्मात सम्वन्धेनाऽप्यन्येन एकेन पदार्थेनाऽन्येऽसमानाः सन्तो न समानाः क्रियन्ते । ततः सम्बद्धनाऽपि सामान्येन स्वभावतोऽसमानाः सन्तो भावाः कथमिव समानाः क्रियेरन् । केवलं तद्वन्तोऽमी इति स्यात् । यदि पुनः स्वतोऽसमाना
अप्यन्येन योगात् समाना भवेयुस्तदा सङ्ख्गदिमन्तोऽपि स्युरिति समाना इति सम्बन्धः। 162A आदिशब्दात संयोग-कार्यद्रव्यपरिग्रहः । द्वित्वादिसङ्ख्यावन्त: संयोगिनः कार्यद्रव्या- 10
वपवाश्च सङ्ख्यया संयोगेन कार्यद्रव्येण चेकेन त्वन्मते सम्बद्धास्ततस्तेष्वपि समाना इति प्रत्ययः प्रादुःष्यात् , यदि सत्यमखण्डेनकेन सम्बन्धः समाना इति बुढेहेतुर्भवतो मतः । ___अन्यस्य नित्यत्वेन विशेषणात् सङ्ख्यादिष्वप्रसङ्ग इति चेत् । न, अनित्यस्य सतो जनकस्यैव समवायित्वात् । तद्यदि सामान्यस्य गवादिव्यक्तयः समवायिन्यस्तदा तेन तत्कार्येण नियमतो माव्यम् , तथा च नित्यत्वहानिरिति नित्यत्व विशेषणं कस्य- 15 चिदप्यनित्यपदार्थसमवेतस्यासिद्धम् । सामान्यस्य विचार्यत्वान तेन व्याप्तिव्यभिचारः। समवायं प्रति तु व्यक्तयः समवायिन्य एव न भवन्ति । समवायित्वे वा समवायस्यापि पक्षनिक्षेपः ।
न चाभिन्नाभिधान-प्रत्ययहेतुर्यः स एव सामान्यमिति वक्तव्यम् । यतः समवायनिवन्धनं सामान्यस्यामिमामिधान-प्रत्ययजनकत्वम् । समवायश्च सङ्ख्यादीनाम• 20 यस्ति । समवायाविशेषेऽपि सामान्यस्यैवाभिन्नाभिधान-प्रत्ययजननप्रकृतिर्न सङ्ख्यादीनामिति पेन् ।एवं तर्हि निःसामान्या अपि व्यक्तयः प्रकृत्यैवाभिन्नाभिधान-प्रत्ययं जनयिष्यन्ति, कृतमश्रद्धेयधर्मवत्तयाऽनेकपिशुनप्रवेशकारिणा सामान्येन । ____ अपि च, नित्यमेकमनंशममूर्त सामान्यं भवद्भिरिष्यते । एवम्भूताभासश्चानुगतप्रत्ययो न संवेद्यते । तदाह
25 न च यथारूपमन्यधीः, वर्णादिग्रहणपरिणामसंवेदनात् । व्यक्तेर्वर्णादिप्रतिभासे तुल्यतापि तस्या एवास्तु । १. हि सम्बन्धेनाप्यन्येनाऽन्ये समाना नाम ॥ २ सह ॥ ३ कार्यद्रव्यस्यावयविनोऽवयवा हस्तपादादयः ॥ ४ सामान्ये न] ॥ ५ सामान्यस्य ।। ६ सामान्येन ॥ ७ गवादिकार्येण || ८ सामान्यरूपस्य ॥ ९ अभिन्नाभिधानप्रत्ययहेतुत्वमपि समवायनिमित्तम् ॥
162B
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org