________________
१०६
स्वोपज्ञटीकासहिते व्यालङ्कारे द्वितीये प्रकाशे
तन्तुषु पट:' इति गुणा-त्रयविनां द्रव्याऽवयवेभ्यो मेदप्रतिमासः १ तेत्रापि हि समवायसम्बन्धस्य सौक्ष्म्यमस्त्येव । अपि च, कोऽर्थः सामान्याद्यतेऽवसीदति येन व्यक्तिभ्यः पार्थक्येनाप्रतिभासमानमपि सम्बन्ध सौक्ष्म्यावलम्बनेन तत् समर्थ्यते, सदृशप्रत्ययस्य प्रतिव्यक्तिपरिसमाप्तसदृशपरिणामेनाप्युपपद्यमानत्वात्, सामान्यनिबन्धनस्य च प्रयोजनान्तरस्याभावात् । तन्न 'गौगः ' इति प्रत्यये व्यक्तिभ्यो भिन्नस्यामिन्नस्य वा कस्य - 5 चिदप्यनुगतस्यानुमन्धानमस्ति उपपद्यते वा । तदयं प्रत्ययः 'समाना गावः' इत्येवमाकार एव । स चैवमाकार: प्रतिव्यक्तिपरिसमाप्तेनापि सदृशपरिणामेन शक्य आविर्भावयितुम् । 160B अथ मिथ्याग्रहादनुगताकार इष्यते तदा प्रतिव्यक्तिभिन्नत्वाविशेषेऽपि सामर्थ्य वैचित्र्याद सहपरिणाम एवं जनयति न विसदृशपरिणाम इति परमार्थः ।
161A
तदेवं स्वसिद्धान्तस्थिति कथयित्वा परसिद्धान्तं दूषयतिअनुगतैकसम्बन्धनिबन्धना तु धीस्तद्वन्त इति स्यात्, भूतवत् कण्ठे गुणेन । न हि सम्बन्धेनाऽपि अन्येन अन्ये समाना नाम | सङ्ख्यादिमन्तोऽपि स्युः | अभिन्नाभिधान प्रत्यय हेतुत्वमपि समवायनिमित्तम् ।
अनुगतेति । अनुगतं सकलस्वव्यक्त्यनुयायि एकमखण्डं तेन सह यो व्यक्तीनां सम्बन्धः 15 समवायः तन्निबन्धना तु वीर्मावेषु सामान्यबुद्धिर्यदि स्थात्तदा 'तद्वन्तः' इति स्यात्, 'अनुगतैकपदार्थवन्तोऽमी भावा:' इत्येवं प्रत्ययः स्यात् न समाना इत्येवम् ।
दपि चात्र केनाप्यभ्यधायि - " पिण्ड एव कुण्डे बदरवत् कृतो नोपलभ्यते इति चेत्, अनन्य देशत्वात् "" [आत्मतच्च ०] इति, तदपि न सोधीयः, यतो यद्यनन्यदेशत्वं पिण्ड सामान्ययोरेकदेशत्वमुच्यते तदा समवायोऽपि नानयोः स्यात् आधाराधेयभावे 20 एव तत्सम्भवात् भिन्नदेशयोरेव च कुण्ड-बदरयोराधाराधेयभावदर्शनात, त्मा - ssकाशयोरपि समवायप्रसङ्गः । अथापि पिण्डस्य स्वावयवा देशः सामान्यस्य तु पिण्ड 161B एवेत्यनन्य देशत्वमुच्यते तथापि तद्वत्ताप्रत्ययप्रसवप्रसङ्गः प्रतिरोद्धुमशक्यः एवं भावेऽपि गुणिनि घटादी 'रूपवानयं स्पर्शवानयम्' इत्यादिप्रत्ययप्रादुर्भावोपलम्भात् । तस्मादनुगतक
अन्यथाss
,
,
Jain Education International 2010_05
10
25
१ घट-रूमयोः तन्तु-पटयोः || २ काका || ३ प्रत्ययः || ४ पूर्वोक्तयुक्त्या तावदनुगताकारो निषिद्धः । अथासौ मिथ्याभिनिवेशादिष्यते तदेत्युत्तरम् ॥ ५ अनुगतैकसम्बन्धनिबन्धना तु धीस्तवन्त इति स्यात् || ६ प्रथमं बौदमाशङ्कय नै[यायिकमाशङ्कते ] ॥ ७ '७' [ = सप्तम्यन्तम् ] ८ सामान्यम् ॥ ९ उदयनः ॥ १० ॥ उदयनाचार्यविरचिते आत्मतत्वविवेके क्षणभङ्गवादे [पृ० ४०२ ] पाठोऽयं विद्यते ॥ ११ जैनः । १२ पिण्डसामान्ययोः ॥ १३७' [ = सप्तम्यन्तम् ] ॥ १४ इत्येवं सत्यपि । पिण्डस्य स्वावयवा देशः, सामान्यस्य तु पिण्ड एव ॥
For Private & Personal Use Only
30
www.jainelibrary.org