________________
सामान्य-विशेषसाधनम् ।
१०५
प्रत्ययजनने समर्थ न 'घटोऽयम्' इति । तथा सदृश-विसदृशपरिणामयोः प्रतिव्यक्ति
परिसमाप्तत्वाविशेषेऽप्यनुगत-व्यावृत्ताकारप्रत्यययोजनकत्वम् , सामर्थ्यवैचित्र्यात् । 1588 अपि च, भावान् पश्यतः पुरुषस्य नैकं भृतेषु कण्ठगुण इव बहुष्वनुगतं
किश्चिदाभासते । तथाहि-गौरय गौरयम्' इति प्रत्ययो य उत्पद्यते न तत्र व्यक्तिभिन्नस्यानुगतस्य कस्यचिदप्यनुसन्धानमन्ति, न हि 'यच्छाबलेये रूपं तद् बाहुलेयेऽपि' 5
इत्येवमाकारोऽयं प्रत्ययः संवेद्यते । नापि व्यक्त्यभिन्नस्यानुगतस्य कस्यचित , 'य एव 159A बाहुलेयः स एव शाबलेयः' इत्येवं प्रत्ययाननुभवात् । ततो मेदा-ऽमेदाम्यां सामान्यासंवेदनान सामान्यामासं विज्ञानम् ।
ननु परस्परविलक्षणानां भेदानामेकोपाधिसम्बन्धमन्तरेण न 'गौौः ' इति प्रत्ययाभेद उपपद्यते । न हि स्वात्मन्येषां विजातीयाभिमतमेदवलक्षण्यमस्ति । तच्छा- 10 बलेयापेक्षया बाहुलेय-घंटेयोरविशेषेऽपि यच्छाबलेय-बाहुलेययोर्गोगोंरिति प्रत्ययो न घटे
तदेकगोत्वसम्बन्धादिति सिद्ध: सामान्यप्रतिमास इति । तदपि न, गौगौरिति प्रत्ययेन 1598 विशेषस्य 'इहै इदानीम् अयम्' इत्येवं देश-काल-स्वरूपेवेतो विषयीकरणात् "नित्ये
ध्यापिन्येकस्मिंश्च देशादीनामभावादिति कथं सामान्यस्य प्रतिमासः स्यात् ? यत् पुनर्भेदाविशेषेऽपि बाहुलेय-शावलेययोरेव 'गौ!:' इति प्रत्ययो न घटे तत्र सदृशपरिणामा- 15 भावः कारणम् । बाहुलेय-शावलेयौ हि परस्परं सदृशपरिणामवन्तौ, न तु घटः ।
स्यादेवम-'गोर्गोंः' इति प्रत्ययो देशादिनियतान विशेषानेवानुसन्धत इति काममनुमन्यामहे, किन्त्वेकगोत्वोपाँधीनिति बम: । न, गोत्वविशेषेणानां गवाम
प्रतिभासनात् । न हि यथा दण्डग्रहणपुरस्सरं दण्डिनि विज्ञानमेवं गोत्वग्रहणपूर्वक 160A शावलेयादिषु । एकमेव हि 'गौः' इति विज्ञाने किञ्चिदामासते, द्वयोरत्र तेटेस्थयोविशेषण- 20
विशेष्यभूतयोर्वाऽनवगमादिति नायं गोत्वमुखेन विशेषावगमः । "भेद-सामान्ययोः सम्बन्धेसौक्ष्याद् दण्डवैदेप्रतिभासः सामान्यस्येति चेत् , कृतस्तहिं 'घटेषु रूपादयः, इह १ कर्तृभूतयोः ॥ २ कर्मभूतयोः ॥ ३ पृथग् सिद्धस्य । एतावता संयोग निषेधति ॥ ४ अयुतसिद्धस्य । अनेन समवायप्रतिषेधः ॥ ५ अनुसन्धानमस्ति ॥ ६ एकस्मात् सामान्यात् शाबलेयबाहुलेयव्यक्त्योरभेदे .. तयोरप्यभेदः प्राप्नोतीत्यभिप्रायः ॥ ७ शावलेयबाहुलेयरूपविशेषाणाम् ।। ८ विशेषाणां भेदानाम् ॥ ९ ऽस्व ॥ 25 १० ५'-तस्मात् ] ॥ ११ भेदावि ॥ १२ देशनियमः ॥ १३ कालनियमः ॥ १४ वस्तुस्वरूपनियमः।। १५ '६' [षष्ठयन्तम् ] ॥ १६ सामान्ये ।। १७ '७' [सप्तम्यन्तम् ] ।। १८ प्रस[-प्रथमसमासः, बहुव्रीहिरित्यर्थः ।। १९ प्रस [-प्रथमसमासः, बहुव्रीहिरित्यर्थः] ॥ २० पूर्वकम् ॥ २१ व्यक्तिसामान्ययोः स्वतन्त्रयोरित्यर्थः ।। २२ व्यक्ति ।। २३ समवायरूप ।। २४ ६' [=षष्ठयन्तं विग्रहे पदम् ] || २५ वैयधिकरण्येन ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org