________________
१०४
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
वस्तुनः सकाशादेकदा सामान्य- विशेषयोर्भेदाभेदसद्भावलक्षणो विरोधो न भवति । तथाहि - भेदा ऽभेदयोर्विरोधः परस्पराभावरूपत्वं वा स्यादेकान्तभेदाभेदेवत्, धर्मिणि 1574 परस्पराभावापादकत्वं वा शीतोष्णवत्, परस्पराभाववच्त्रं वा दण्डित्व- कुण्डलित्ववत् । तत्र नाद्यः, कथञ्चिद्भेदाभेदयोरभ्युपगमात् तयोश्च परस्पराभावरूपत्वाभावात्, एकान्तभेदाभेदयोरेव तेंदूपत्वात् । अन्यथा कथञ्चिच्च व्याघातः, द्वितीयरूपाभावेनैकान्तत्व- 5 प्रसङ्गात् । कथञ्चिच्च व्याघातादेव द्वितीयोऽपि न । नापि तृतीयः कृतकत्वाऽनित्यत्वादेरपि परस्पराभाववत्तामात्रेण विरोधप्रसङ्गात् । चतुर्थस्तु प्रकाशे न सम्भवति । तत् सामान्य विशेषौ धर्मों धर्मिणः कथश्चिद व्यतिरिक्ता ऽव्यतिरिक्तौ प्रमाणोपनीती परमार्थसन्ताविति ।
"
स्यान्मतम् - येषामेकं सत् सामान्यं भूतेषु कण्ठगुण इव स्वव्यक्तिष्वनुगतं तेषां 10 157B निबन्धनोऽनुगताकारः प्रत्ययो युज्यते ग्राह्यस्याप्यनुगतत्वात् । भवतां तु सदृशपरिणामः सामान्याख्यः प्रतिव्यक्ति भिन्नः कथमनुगताकारप्रत्ययहेतुः स्याद् ग्राह्यस्याननुगतत्वात् ? अन्यथा विसदृशपरिणामस्यापि विशेषाख्यस्य तद्धेतुत्वप्रसङ्गः, प्रतिव्यक्तिभिन्नत्वस्याविशेषादिति ।
1
,
अत्राह
प्रतिव्यक्ति भेदाविशेषेऽपि अनयोर्भिन्नधी हेतुत्वम्, सामर्थ्यवैचित्र्यात्, घटोदञ्चनादिवत् ।
प्रतिव्यक्तीति । व्यक्ति व्यक्ति प्रति प्रतिव्यक्ति भेदाविशेषेऽपि अनयोः सामान्यविशेषधर्मयोन्निधहेतुत्वम् । सामान्यांशोऽनुगताकारप्रत्ययहेतुः, विशेषांशः पुनर्व्यावृत्ताकार प्रत्यय हेतुः, सामर्थ्यवैचित्र्यात् । विचित्रं हि पदार्थानां सामर्थ्य कस्यचित् कदा- 20 चित् कचिद् भवति । ततः सदृशपरिणामः प्रतिव्यक्ति भिन्नोऽप्यनुगताकारप्रत्ययजनने 158A समर्थो विसपरिणामस्तु तथाभृतोऽपि व्यावृत्ताकारप्रत्ययजेनने । घटोदञ्चनादिवदिति साधर्म्यम्, आदिशब्दाच्छरावादिग्रहः । यथाहि मार्द्दत्वाविशेषेऽपि घटो घटोऽयम्' इति प्रत्ययजनने समर्थो न 'उदश्चनमिदम्' इति । उदञ्चनमपि 'उदश्चनमिदम्' इति
15
१ एकान्तभेदो हि एकान्ताभेदाभावरूपः, एकान्तामेदो हि एकान्तभेदाभावरूपः || २ परस्पराभावरूपत्वात् ॥ 25 ३ एकस्य भेदस्याभेदस्य वा अंगीकारे द्वितीयस्य निराकरणे एकान्तत्वमेवायातीत्यर्थः || ४ विकल्पो ॥ ५ नै० [ = नैयायिकानाम् ] ॥ ६ भूतानि ग्रह-नक्षत्राणि तेषां कण्ठे दीर्घगुणोऽर्चनार्थ निबध्यते ॥ ७ सामा° ॥ ८ अनुगताकारप्रत्यय हेतुत्व ॥ ९ प्रतिव्यक्ति भेदाविशेषेऽप्यनयोर्भिन्नधीहेतुत्वम् । १० प्रतिव्यक्ति भिन्नोऽपि ॥ ११ समर्थः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org