________________
१०३
सामान्य--विशेषसाधनम् । शाश्वतिको “वर्षाकालेभ्यः" [सि० ६।३।८०) इतीकणपि । तद्वस्तुनः सामान्यविशेषरूपत्वान भ्युपगमेऽनुगतव्यावृत्तबुद्धि-शब्दो न स्यातामिति स्थितम् । ननु यथा सादृश्य-सदृश्य निबन्धने वस्तुन्यनुगत-व्यावृत्तिबुद्धिस्तथा सादृश्य-वैसदृश्ययोरपि प्रामुतः, तैयोस्तत्रापि भावात् । तथा चानवस्थितिः । अथ तयोस्ते विनाऽपि अनुगतव्यावृत्त शुद्धी इष्यते तदा वस्तुन्यपि तथाभावप्रसङ्ग इति । तन्न । यतो यथा 5 घटादीनां प्रत्यक्षज्ञानयोगात् प्रत्यक्षत्वं प्रत्यक्षज्ञानस्य तु स्वत एव तथाऽत्रापि भविष्यति । ये तु ज्ञानस्यापि परतः प्रत्यक्षन्वममंसत तेषां सामान्यैयभिचारः ।
तुल्यज्ञानगोचरो वस्तुभावः समानपरिणामः स सामान्यम् । अन्यो विशेषः । तौ वस्तुनः स्यादभिन्नावन्योन्याविनाभूतौ सद्भूतौ । अत एवाविरोधः ।
10 ___ तत्र सामान्यांशस्वरूपं कथयति-तुल्यस्य सशस्य ज्ञानस्य प्रत्ययस्य गोचरो 156A विषयो वस्तुभावो वस्तुपर्यायः समानपरिणाम उच्यते । स इति समानपरिणामः सामान्य
मित्युच्यते। न पुनर्यथा परे प्राहुः-नित्यमेकं निरंशं सर्वस्वव्यक्त्यनुयायि च, तथाभूतम्य निषेत्स्यमानत्वात् ।।
विशेषांशस्य स्वरूपमाह-अन्यो विशेषः उक्तलक्षणात् समानपरिणामादन्यो विपरीत. 15 लक्षणो विशेषो विशेषांशः । योऽतुल्यज्ञानगोचरो वस्तुभावः स विशेषांश इत्यर्थः ।
___ साविति सामान्य-विशेषौ वस्तुनो धर्मिणः सकाशात् स्यात् कथञ्चिद् भिन्नौ व्यतिरिक्तावन्योन्याविनाभूतौ परस्परनान्तरीयको, सामान्यांशं विना विशेषांशो न भवति 156P विशेषांशं च विना सामान्यांश: । सद्भूतौ प्रमाणाबाधितो परमार्थसन्तावित्यर्थः ।
प्रमाणाबाधितत्वं च पूर्वोदितनीत्या द्रष्टव्यम् । एतेन ये सामान्यं परमार्थसदपि म्व- 20 व्यक्तिभ्य एकान्तमिन्नमभिदधति ते निरस्ता तथा विशेषांशमपि ये वस्तुस्वभावरूप मन्यन्ते न पुनर्विशेषपरिणामरूपं वस्तुनो मिभाभिन्न धर्म तेऽपि च । ___अत एवेति, यत एव सामान्यविशेषौ वस्तुधर्मो सद्भुतौ अत एवाविरोधः । १ . “वर्षाकालेभ्यः । ६३८० । वर्षाशब्दात् कालविशेषवाचिभ्यश्च शेषेऽर्थे इकण् प्रत्ययो भवति ॥" इति सिद्धहेमबृहदवृत्तौ ॥ २ अनुगत-व्यावृत्तिबुद्धयोः सादृश्य-वैसदृश्यबुद्धयोः ॥ ३ यथा सामान्येषु 25 सामान्यान्तरं विनापि अनुगता बुद्धिस्तथा सादृश्य-वैसदृश्ययोरपि स्वत एव सादृश्य-वैसदृश्यबुद्धी स्यातामित्यर्थः ।। ४ तुल्यज्ञानगोचरो वस्तुभाष: समानपरिणामः स सामान्यम् ॥ ५ सर्वपुरुषविज्ञानानां विषयः ॥ ६ तौ वस्तुनः स्यादभिन्नावन्योन्याविनाभूतौ सद्भुतौ ॥ ७ केवलानेव विशेषान् बौद्ध। मन्यन्ते, न पुनः सामान्यगर्भित वस्तु ।। ८ अत एवाविरोधः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org