________________
155A
१०२
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे स्यादेवम्-अतत्कार्येभ्योऽतत्कारणेभ्यश्च व्यावृत्तिरस्ति निबन्धनम् , तदुक्तम्
___ "इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका।" [प्रमाणवा० १७३] इति । तदयुक्तम् , अतत्कार्यकारणव्यावृत्तश्चक्षुरादिभिर्व्यभिचारात् । तदाह-अतदिति । तद् 154B विवक्षितं कार्य कारणं च येषां ते तथा, न तथा अतत्कार्यकारणास्तेभ्यो व्यावृत्तिर्या सा
चक्षुरादावप्यस्ति, आदिशब्दाद् रूपा-ऽऽलोकादिग्रहः । चक्षू-रूपा-ऽऽलोक-मनस्काराणाम- 5 ज्ञानजनकेभ्य: स्वकारणभिन्न कारणेभ्यश्च घटादिभ्यो व्यावृत्तिरस्ति, न चासावनुगतप्रत्ययनिबन्धनम् । न खल्वतत्कार्यकारणव्यावृत्तावपि चक्षु-रूपा-ऽऽलोक-मनस्कारेषु घटेष्विवानुगताकारः प्रत्ययः प्रादुरस्ति । चक्षुरिति प्रत्ययस्य रूपा-ऽऽलोक-मनस्कारेश्वभावात् । तस्मादतत्कार्यकारणव्यावृत्तिरेकाकारप्रत्ययस्य निबन्धनं नोपपद्यते ।
___ अनुगताकारप्रत्ययस्यानादिभवाम्यस्ता कुवासना निबन्धनं न सदृशपरिणाम इति 10 चेत् , उच्यते-वासनेति । वासनाऽविद्या हेतुर्यस्य स तथाभूतो यद्यनुगताकारः प्रत्ययः स्यात् तदा न सर्वत्र पुरुषे देशेऽवस्थायां वा स्यात् , किन्तु क्वचिदेव । कस्मात् ? व्यामोहाऽसम्भवात् , स्वत: कुशास्त्रश्रवणाद्वा बुद्धिवैपरीत्यं व्यामोहः । सर्वत्रेति पदं योज्यते । व्यामोहनिमित्ता हि वासना, व्यामोहस्य च सर्वत्र पुरुषे देशेऽवस्थायां वा सद्भावो न सम्भवति । ततो यद्यनुगताकारः प्रत्ययो वासनानिवन्धनः स्यात्तदा 15
सार्वत्रिको न स्यात् । तदित्युपसंहरति । तत् तस्मादयं शाश्वतिकः सदाभावी निर्भासोऽ1558 नुगताकोगे ज्ञानप्रतिमासो बाह्यसदृशपरिणतिनिबन्धनः बाह्यानां घटादीनां यः सदृशपरिणाम
स्तत्कारणकस्तत्प्रभवो वस्तुविषयत्वेन प्रमाणम् , न पुनरन्य निबन्धनत्वेनाप्रमाणमित्यर्थः । सन्ध्यादौ पाठेऽपि ""ऋवर्णोवर्ण" [सि० ७४७१] इत्यादिसूत्रे वर्जनाच्छश्वद्भवः १ इतरस्मादितरस्मात् , कोऽयः १ अतत्कार्यादततत्कारणाच यो भेदः ॥ २ अनुगतप्रत्ययस्य ॥ ३ शब्दः ॥ 20 ४ य इतरेतरभेदोऽर्थः प्रयोजनमस्याः ॥ ५ अतत्कार्यकारणव्यावृत्तिश्चक्षुरादावप्यस्ति ।। ६ न ज्ञानं यानि जनयन्तीति ॥ ७, ८ 'अतत्कार्येभ्यः, अतत्कारणेभ्यः' इति द्वयं विशेषणाभ्यामुक्तम् ॥ . वासनाहेतुर्न सर्वत्र स्यात् ।। १० तदयं शाश्वतिको निर्भासो बाद्यसदृशपरिणति निबन्धनः प्रमाणम् ॥ ११ यस्य ॥ १२ * "भर्तुसन्ध्यादेरण । ६।३२८९ । भं नक्षत्रं तद्वाचिभ्यः, ऋतुवाचिभ्यः सन्ध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थे अण् प्रत्ययो भवति । इकणोऽपवादः ।..................."सन्ध्या 25 सन्धिवेला अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् शश्वत् इति सन्ध्यादिः। 'ऋवर्णोवर्णात्' [७ । ४ । ७१] इति सूत्रे अशश्वदिति प्रतिषेधात् 'शश्वत्' शब्दादिकणपि, शाश्वतम् , शाश्वतिकम् ।" इति सिद्ध हेमबृहदवृत्तौ ॥ १३ * "ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् । ७१४ । ७१ । अवर्णान्ताद् उवर्णान्ताद् दोस्शब्दादिसन्तात् उसन्तात् शश्वदकस्माद्विवर्जितात् तकारान्नाच परस्य इकप्रत्ययस्य सम्वन्धिन इत इकारस्य लुग भवति, मातुरागतं मातृकम् , पैतृकम् , 'ऋत इकण' [६।३।१५१] 1......... 30 "शश्वदकस्मात् प्रतिषधः किम् ? शश्वद् भवं शाश्वतिकम् , 'वर्षाकालेभ्यः।६।३७९] इतीकण । आकस्मिकम्।" इति सिद्ध हेमवृहद्वृत्तौ ।। १३ * छ” इत्यक्षरादनन्तरं श्वच्छब्दादिकणपि भवति श° इति पाठोऽत्र लिखिल्वा ग्रन्थकाराभ्यामेव घृष्ट्वा अपाकृतः ॥
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org