________________
153A
सामान्य-विशेषसाधनम् । शब्दः सकेतमप्यपेक्षते । सदृशपरिणामेषु भावेवेकः शब्दः प्रवृत्तिमातन्वानः सङ्केतमपि समयमप्यपेक्षते. न केवलं सशरिणामदर्शनमिति अपिशब्दार्थः, क्षयोपशमस्या
ऽन्यथा सदृशपरिणामदर्शनं सङ्केतकरणं च विनाऽनुपपादादनुपपद्यमानत्वात् । विश्वरूपो 153B हि ज्ञानावरणीयादिकमणां क्षयोपशमः क्वचित् कदाचित् कथञ्चिद्भवति, क्षयोपशमा
धीनाश्च छमस्थजनानां सर्वाः प्रवृत्तयः। अयमर्थ:-अनुगतबुद्धः सदृशपरिणाम एवैकं 5 निमित्तानुगतशब्दस्य तु सदृशपरिणामः सङ्केतश्चेन्युभयं निमित्तमिति । तदनुगतबुद्धि-शब्दान्यथानुपपन्या सामान्यांशोऽपि भावेष्वङ्गीकर्त्तव्य एवेति स्थितम् ।
नन्वयमनुगतप्रत्ययो भ्रान्त एवेति कथं तदन्यथानुपपच्या वस्तुसन् सामान्यांशो भावेषु साध्यत इति । अत्राह
न चायं भ्रान्तः, सर्वत्राऽस्खलितत्वात् , निवन्धनाभावाच्च । 10 अतत्कार्यकारणव्यावृत्तिश्चक्षुरादावप्यस्ति । वासनाहेतुर्न सर्वत्र स्यात्, व्यामोहासम्भवात् । तदयं शाश्वतिको निर्भासो बाह्यसदृशपरिणतिनिबन्धनः प्रमाणम् ।
ने चायमनुगताकारः प्रत्ययो प्रान्तो निर्विषयः, सर्वत्र सर्वदाऽस्खलितत्वात् । अस्खलितत्वं
च प्रमाणाबाधितत्वं सर्वपुरुषमावित्वं चोच्यते । नायं प्रत्ययः प्रमाणेन बाध्यते नापि 15 154A कस्यचिन्न भवति, किन्तु प्रमाणाबाधितः सर्वपुरुषभावी चायं तस्मादभ्रान्त एव ।
न केवलमस्खलितत्वान भ्रान्तः, तथा निवन्धनाभावाच्च । यद्ययं प्रत्ययः सदृशपरिणामनिबन्धनो न भवति तर्हि निवन्धनान्तरं किश्चिद्वाच्यम् । न खलु भ्रान्तिरपि निर्निबन्धना सम्भवति, अहेतोर्देश-कालनियमाभावात् । निबन्धनान्तरं च किञ्चिदपि नास्त्येव ।
20
"छ । वृक्षादिलक्षणो पुनः सदृशपरिणामकृती, संकेत-व्यामोहाभावेऽपि भावात् । ननु मा भूद् वृक्षोऽयमित्यनुगताकारः प्रत्ययः संकेतनिबन्धनस्तदभावेऽपि भावात् , शब्दः पुनस्तन्निबन्धन एवास्तु संकेताभावे नियतं तस्याभावात् । न खलु सदृशपरिणामं वृक्षेषु पश्यन्नपि शिशुस्तेषामेकशब्दवाच्यत्वमवस्यतीति । अत्राह"
किन्तु पश्चाद् ग्रन्थकाराभ्यामेव च । वृक्षा इत्यस्य स्थाने 'चेति' इति कृतम् , ततः परं '[दिलक्षणौ .........."अत्राह' इति च सर्वोऽपि पाठः [ . ] एतादृशे कोष्ठके निक्षिप्य ग्रन्थकाराभ्यामेव परित्यक्तः। 25 " शब्दस्य ॥ १ क्षयोपशमान्यथानुपपादात् ।। २ नानारूपः ॥ ३ कर्माणां इति हस्तिलिखितादर्श पाठः ॥ ४ अनुगतप्रत्ययान्य' ॥ ५ न चायं भ्रान्तः ॥ ६ न चायं भ्रान्तः सर्वत्रास्खलितत्वात् ॥ ७ द्विचन्द्रादिशानं प्रमाणबाधितम् ॥ ८ सर्वपुरुषाबाधितत्वं च ॥ * 'सर्वपुरुषाबाधितत्वं च' इति 'सर्वपुरुषभाविलं च' इत्यस्य टिप्पणं भाति ॥
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org