________________
१००
स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
करणात् । ततो यथा प्रधानादिकार्यत्वलक्षगसदृशपरिणामाभावेऽपि भावेष्वनुगतबुद्धिशब्दौ भवतस्तथा घटादिषु सदृशपरिणामाभावेऽपीति ।
अत्रोच्यते
151B
प्रधानादिकार्यरूपौ तु संकेत- व्यामोहनिमित्तौ, तदभावेऽभावात् । अध्यक्षतो वस्तुमात्रावगमात् ।
स
प्रेधानादीति । आदिशब्दादीश्वरादिग्रहः । प्रधानादिकार्या ईश्वरकार्या वा भावा इत्येवंरूपौ यावनुगतबुद्धि शब्दौ भवतो भावेषु तौ सङ्केत - व्यामोहनिमित्तौ, तात् तथा समयात् व्यामोहात् कुशास्त्रश्रवणसंस्काराद् भवतो न सदृशपरिणामात् । तदभावे तयोः सङ्केत - व्यामोहयोरभावे अभावात् प्रधानादिकार्य लक्षणयोर्बुद्धि-शब्द योग्नुत्पादात् । अध्यक्षतोऽध्यक्षेण वस्तुमात्रावगमात् वस्तुमात्रस्य प्रधानादिकार्यत्वरहितस्यात्रबोधात् । 10 वृद्वैहिं न यस्य प्रधानादिकार्यमिति सङ्केतः कृतो नापि व्यामोहोऽस्ति न तस्य पुरः पदार्थान् पश्यतः प्रधानादिकार्या एत इति बुद्विरुदयते । अत एव तथा शब्दोऽपि 1524 न भवति, बुद्धिनिबन्धनत्वात् तस्य ।
वृक्षादिष्वप्येवं किं नेष्यत इति चेदाह -
5
वृक्षादिषु स्वतः सर्वस्य समानपरिणामावगमः । शब्दः 15 संकेतमप्यपेक्षते, क्षयोपशमान्यथानुपपादात् ।
"वृक्षादिषु आदिशब्दात् पटादिषु स्वतः सङ्केत - व्यामोहौ विना सर्वस्य नैकस्य कस्यचित् समानपरिणामावगमः सदृशपरिणामावबोधो भवति । यथा हि 'प्रधानादिकार्यम्' इति सङ्केत- व्यामोहौ विना न भावेषु प्रधानादिकार्यत्वलक्षणसदृशपरिणामः प्रत्यक्षतो 152B वीक्ष्यते, नैवं वृक्षत्वादिलक्षणः, तस्य सङ्केत - व्यामोहौ विनापि प्रतीयमानत्वात् । 20 अकृतवृक्षशब्दवाच्यत्वसङ्केतोऽपि हि बालको वृक्षान् पुरः पर्यस्तेषु सदृशपरिणामं प्रतिपद्यत एव । न च यो यदभावेऽपि भवति स तन्निबन्धन इति वदन् कृती भवति । तत् प्रधानादिकार्यलक्षणावनुगतबुद्धि-शब्दौ भावेषु सङ्केत - व्यामोहकृतौ, तद्भावे भावादभावेऽमावाश्चेति ।
१ प्रधानादिकार्यरूपौ तु सङ्केतव्यामोहनिमित्तौ ॥ २ तदभावेऽभावात् ॥ ३ अध्यक्षतो 25 वस्तुमात्रावगमात् ॥ ४ बुद्धेरनुदयादेव ॥ ५ तथा तेन प्रकारेण 'प्रधानेश्वरादिकार्याः' इत्युलेखेन शब्दोऽपि ॥ ६ वृक्षादिषु स्वतः सर्वस्य समानपरिणामावगमः ॥ ७ • अत्रेदं बोध्यम्-अत्र पूर्व ग्रन्थाकाराभ्यामीदृशः पाठः लिखित आसीत्
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org