________________
सामान्य-विशेषसाधनम । वन्त्येव । न खलु सर्वथा विसदृशपरिणामेषु स्तम्भ-कुम्भा-ऽम्भोरुहेविवेकः परामर्शी भवति । तेनैतदपि प्रत्युक्तम्
"एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥" [प्रमाणवा० ११११०] इति। 1498 सविकल्पिका-ऽविकल्पिकानां धियां सर्वथा विसदृशपरिणामाभ्युपगमे एकपरामर्श- 5
स्यैव चिन्त्यत्वात् । तस्मात् सदृशपरिणामाभ्युपगम एव भावेष्वनुगतबुद्धि-शब्दौ घटेते, नान्यथा ।
ननु यदि सदृशपरिणामेष्वेवानुगतवुद्धि-शब्दौ तदा कथं निवृत्तपाकक्रियासदृशपरिणामेषु पाचकेषु तो भवत इति । अत्राह
निवृत्तपाकादौ पाचकादौ ज्ञान-शक्यपेक्षौ बुद्धि-शब्दौ । 10
निवृत्तपाकादौ पाचकादाविति । आदिशब्दाद्याजकादिपग्ग्रिहः । पाचकादौ ह्यनुगतबुद्धि-शब्दयोनि शक्तिः पाकादिक्रिया च निबन्धनम् । यः पाकादिक्रियां कर्तुं जानाति शक्रोति अनुतिष्ठति च स पाचको याजको वा व्यपदिश्यत इत्यर्थः । ततो
यद्यपि निवृत्तपाकादौ पाचकादौ क्रिया नास्ति तथापि ज्ञान-शक्ती स्तः, ततस्तदपेक्षा150A वनुगतबुद्धि-शब्दो भविष्यतः । अत एव समग्रसामग्रीकत्वाभावादीषत् स्खलत एव । 15
न खलु यथा पाकादिक्रियां कुर्वाणे पाचकादावस्खलितो पाचकादिबुद्धि-शब्दो तथैवाऽकुर्वाणेऽपि । अत्र चानुभव एव प्रमाणम् । यस्य तु शास्त्रसंस्कारादिना ज्ञान-शक्ती
एव स्तो न तु क्रिया तत्र स्खलितावपि न भवतः, परिपूर्णनिमित्तायाः कदाचिद150B प्यभावात् । अनुष्ठितपाकादिक्रियेऽपि च पुंसि शब्दप्रत्ययान्तरनिमित्तमनुतिष्ठति पाकादि
शब्द-प्रत्ययौ न मत्रत:, शब्द-प्रत्ययान्तराभ्यां बाधितत्वात् । तस्माद्यत्र परिपूर्ण 20 निमित्तमस्ति तत्र पाचकादिबुद्धि-शब्दावस्खलितो भवतः. यत्र तु निवृत्तक्रियत्वादपरिपूर्ण नषत्स्खलितो, यत्र तु क्रिया न वर्तमाना नापि भूतपूर्वा तत्र भवत एव नेति माव: । ___ स्यादेवम्-'प्रधानकार्योऽयं प्रधानकार्योऽयम्' यदि वा 'ईश्वरकार्योऽयमीश्वरकार्योंऽयम्' इत्येवं यावनुगतबुद्धि शब्दौ भावेषु केषांश्चित् प्रादुर्भवतम्तौ कथं न्वन्मते घटेते ? न 25 खलु तेषु प्रधानादिकार्यत्त्रपरिणामः मम्भवतिभावानां प्रधानादिकार्यन्वस्य भवद्भिग्नङ्गी१ प्रतिव्यक्तिभिन्नजलधारणक्रियागतवुद्धयो भिन्ना अपि 'एताः सर्वा जलधारणक्रियाः' इत्येकज्ञानस्य हेतुत्वादभिन्नाः, तस्याश्चाभिन्नाया व्यक्तयो हेतव इति ता अप्यभिन्ना भण्यन्ते इति कारिकार्थः ॥ २ सप्तम्यन्तम् ॥ ३ निवृत्तपाकादौ पाचकादौ ज्ञानशक्त्यपेक्षौ बुद्धिशब्दौ ॥ ४ पुंसः ॥ ५ पच्यादिक्रिया ॥ ६ अनुगतबुद्धि-शब्दौ ।। ७ परिपूर्ण हि निमित्तं त्रिकरूपमनुष्ठानादि ।। ८ तस्य पुंसः ।। ९ सति ।। २० सांख्यादीनाम् ।। 30
151A
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org