________________
स्थोपाटीकासहित द्रव्यालङ्कारे द्वितीये प्रकाशे तत्कार्यावधिः समानपरिणामस्तत्राप्यस्ति ।
म्यान्मतम्-चक्षु रूपा-ऽऽलोक मनस्कारेष्वपि 'चक्षुर्ज्ञानजनकम् , रूपं ज्ञानजनकम्' इत्येवमनुगतबुद्धि-शब्दावेकार्थक्रियानिबन्धनो विद्यते एव, तत् कुतो व्यभिचार इति ? तन्न. यस्मात् तत्कार्यावधिम्तदिन्द्रियज्ञानलक्षणं कार्यमवधियस्य स समानपरिणामस्तत्रापि
चक्षुरादिषु गुडूच्यादिषु चाऽस्ति । अयमर्थः-यावतोग्नुगतबुद्धि-शब्दयोश्चक्षुरादयो निमित्तं 5 148A भवन्ति तावनोविषये तेषां सामान्यांशोऽप्यस्ति, ततश्च 'अयमपि ज्ञानजनकोऽयमपि ज्ञान
जनकः' इत्येवमप्यनुगतबुद्धि-शब्दो नैकार्थक्रियानिबन्धनौ, अपि तर्हि ? सामान्यांशनिवन्धनावेव । ततो यदि क्वचिदपि सामान्यांशाभावेऽप्यनुगतबुद्धि-शब्दावेकार्थक्रियानिवन्धनौ स्याता तदा न स्यादेव व्यभिचारः । तत्तु नास्ति, ततो व्यभिचार एव ।
क्रिया अपि विलक्षणा नैकत्वहेतवः । तथा चैकः परा- 10 मर्शोऽप्यसिद्धः ।
किञ्च, यन्निवन्धनावनुगतबुद्धि-शब्दौ भावेष्विष्येते ता अपि क्रिया यदि सर्वथा विलक्षणा एवं तदाऽनुगतबुद्धि-शब्दो तभिवन्धनौ न प्राप्नुतः, विलक्षणस्य विलक्षण1480 बुद्धि-शब्दयोरेव हेतुत्वात् । एतदेवाह-क्रिया अपि जलधारणादिका विलक्षणाः सर्वथा
सदृशपरिणामशून्या नैकत्वहेतवो नैकत्वनिबन्धनबुद्धि-शब्दनिमित्तं प्राप्नुवन्ति । कार्ये 15 कारणोपचागदेकत्वशब्देनैकत्व निबन्धनावनुगतबुद्धि-शब्दावुच्यते । एकत्वं च सदृशपरिणाम एव, परस्पराभेदस्यानभ्युपगमात् ।
__ स्यादेतत्-विलक्षणा अपि क्रिया एकैपरामर्शजनकत्वेनोपचरितसादृश्याः सत्यो भावेष्वनुगतबुद्धि-शब्दनिबन्धनं भवन्त्येवेति । उच्यते-'तथेति । यदा ताः क्रिया 149A विलक्षणाः सत्यो भावेष्वनुगतबुद्धि-शब्दनिवन्धनं न प्राप्नुवन्ति तथा च सति एक: 20
परामशोऽपि तद्विषयोऽस्माकं न सिद्धः । यथा ता: क्रिया विलक्षणा: सत्यो नानुगतबुद्धि-शब्दनिबन्धनं भावेषु भवितुमर्हन्ति तथा परामर्शमप्येक विषयमुत्पादयितुं न शक्नु
१ आलोको मनस्कारश्च ज्ञानजनक इति ॥ २ तत्कार्यावधिः समानपरिणामस्तत्राप्यस्ति ॥३ प्रसः [ प्रथमसमासो बहुव्रीहिरित्यर्थः] ।। ४ एकार्थक्रिया निबन्धनं ययोः ॥ ५ सजातीयविजातीयव्यावृत्ता एव ।। ६ किया अपि विलक्षणा नैकत्वहेतवः ॥ ७ एकत्वं सदृशपरिणामः कारणरूपः, तस्य 25 कार्यम् अनुगतबुद्धि-शब्दरूपम् , तत्र कार्ये एकत्वस्य सदृशपरिणामस्य कारणरूपस्योपचारः सूत्र ॥ ८ . अत्र 'प्रसआ' इति लिखितं भाति तत्र 'प्रस' इति स्पष्टम् , तस्य च प्रथमसमासो बहुव्रीहिरित्यर्थः । किन्तु 'आ' इत्यस्य अर्थो न ज्ञायते । दृश्यतां पृ० १९ टि० १ ॥ ९ स च भेद एव संगच्छते ॥ १० एताः सर्वा जलधारणक्रिया इत्युल्लेखेन एकाकारज्ञानजनकत्वेन ॥ ११ तथा चैकः परामर्शोऽप्यसिद्धः ।। १२ क्रिया ॥ १३ एतदेव स्पष्ट विवृणोति || १४ एकरूपम् ।।
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org