________________
146B
सामान्य-विशेषसाधनम् । "सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभाव-परभावाभ्यां यस्माद्वयावृत्तिभागिनः॥" [प्रमाणवा० ३।४०] इति ।
अत्राह-अन्यथेति । यदि व्यावृत्तस्वभाव एवैको वस्तुनः स्यात्र सामान्यस्वभावोऽपि तदा घटोऽयं घटोऽयमिति सकलसदृशपरिणामघटकदम्बकानुयायिनी याऽनुगताकारा तथा सीमन्तिनीमस्तकस्थित: श्यामोऽयं घट इति व्यावृत्ताकारा च या 5 बुद्धिस्तथैर्वम्भूत एव च यः शब्दस्तावनुगतव्यावृत्तबुद्धि-शब्दौ न स्याताम् , एकरूपत्वात् सर्वभावानां व्यावृत्तकरूपत्वात् व्यावृत्तावेव बुद्धि-शब्दौ स्यातामित्यर्थः ।
___ यद्यपि घटादयो भावाः परस्परमसंस्पृष्टस्वभावास्तथापि जलाद्याहरणाघेकार्थक्रिया147A सामर्थ्य तेषु पश्यतः पुरुषस्यानुगताकारबुद्धि-शब्दो भविष्यतः । तदुक्तम्"एकप्रत्यवमर्थिज्ञानाद्यकार्थसाँधने ।
10 "भेदेऽपि नियताः केचित स्वमावेनेन्द्रियादिवत् ॥ ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा ।
दृष्टा यथा वौषधयो नानात्वेऽपि न चापराः ॥" [प्रमाणवा० १७४-७५] इति चेत् । न, एकार्थक्रियाकारित्वे सत्यप्यनुगतबुद्धि-शब्दानुत्पाददर्शनात् । तदेवाह
एकार्थक्रियाकारित्वेऽपि च न चक्षुरादयः समानबुद्धि-शब्द- 15 हेतवः ।
एकथिति । आदिशब्दादालोकादीनां गुडूच्यादीनां च ग्रहः । चक्षुरादिसामया गुडूच्यादिसामग्याश्चार्थज्ञानादिका ज्वरोपशमनादिका चैकार्थक्रियास्ति, न पुनः 147B चक्षुरादयो रूपादौ 'चक्षुः' इत्याद्यनुगतबुद्धि-शब्दोत्पादनिबन्धनं भवन्ति । तदेकार्थक्रिया
कारित्वमनुगतबुद्धि-शब्दोत्पादे व्यभिचारि । ततोऽनुगतबुद्धि-शब्दनिबन्धन भावेषु 20 सामान्यांशोऽभ्युपेयः ।
१ स्वरूपेण ॥ २ स्वभावः सजातीयः पदार्थः । परभावो विजातीयः ॥ ३ चसः चतुर्थसमासः, कर्मधारयसमास इत्यर्थः । परो भाव इति विग्रहः ॥ ४ '५' [=पञ्चम्यन्तं पदम् ] || ५ अन्यथाऽनुगतव्यावृत्तिबुद्धिशब्दावपिन स्याताम् ॥ ६ अनुगतव्यावृत्ताकार इत्यर्थः ॥ ७ परः ॥ ८ अयं वटोऽयं घट इत्युलेखेन एकाकारज्ञानमेकप्रत्यवमर्शः ॥ ९ ६' [=षष्ठयन्तं विग्रहे ज्ञेयम् ॥ १० निष्पादने ॥ 25 ११ भिन्नत्वेऽपि नानात्वेऽपि ॥ १२ युगपत् ॥ १३ 'च' मूलादर्श नास्ति, टिप्पणे एव विद्यते ।। १४ एकार्थकियाकारित्वेऽपि च न चक्षुरादयः समानबुद्धि-शब्दहेतवः ॥ १५ '६' [-षष्ठयन्तं विग्रहे पदम् , अर्थस्य ज्ञानम् ] ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org