________________
145B
स्वोपज्ञटीकमहिने द्रव्यालङ्कारे द्वितीये प्रकाशे
"
ने च क्षयोपशमाधीना क्षयोपशमायत्ता च्छद्मस्थधीः प्राकृतपुरुषबुद्धिर्वस्तुभावितापि वस्तुमिः कृतापि, भावितं वासितं कृतमित्येक एवार्थः यथावस्तु वस्तुनोऽनतिक्रमेण भवति । यावद्भिः पर्यायैर्वस्तु युक्तं तावद्भिर्नावगच्छतीत्यर्थः । यद्यपि प्राकृतपुरुषधीवस्तुसामर्थ्यभाविनी तथापि क्षयोपशमपारवश्यदावदग्धा सती न सर्वात्मना वस्तुनवगन्तुं शक्नोति ।
९६
1
यद्यग्रहो वस्तुन एकदेशमेव गृह्णाति तदा वैस्तुनो मेदः प्रामोति, गृहीता· गृहीतशयोर्विरुद्धधर्माध्यासेन भेदादिति । उच्यते - अनन्तात्मन इति । अनन्ता आत्मानः स्वभावाः पर्याया यस्य तस्य वस्तुनः कियदग्रहोऽपि प्रमाणेन क्रियतोऽप्यंशस्यापरिच्छेदोऽपि न दोषाय, वस्तुनोऽनेकत्वस्येष्टत्वात् ।
तत् प्रमाणस्यावायस्य सामान्यविशेषरूपः प्रतिभासो वस्त्वेव | 10 अन्यथाऽनुगतव्यावृत्तबुद्धि-शब्दावपि न स्याताम्, एकरूपत्वात् ।
5
सम्प्रत्युत्तरवादस्य प्रस्तावनां रचयन् विकल्पप्रामाण्यवादमुपसंहरति-तेदिति । प्रमाणस्य प्रमाणलक्षणयुक्तस्य । वस्त्वेव परमार्थसन्नव । एवं च प्रमाणोपनीतत्वात् सामान्यविशेषात्मकः स्कन्धोऽपि वस्त्वेव । अयं च विकल्पप्रामाण्ये न्यायः- बाह्योsर्थी 146A विवक्षित विकल्पविषयः, सैम्यक्प्रवृत्तिविषयत्वात् यदेवं न भवति न तत् सम्यक्प्रवृत्ति - 15 विषयो यथा सम्प्रतिपन्नो वैस्त्वंश इति स्वभावः । सम्यक्प्रवृत्तिविषयत्वं निश्चितत्वेन व्याप्तम्, न ह्यनिश्चितः सम्यक्प्रवृत्तियोग्यः, न चाविषयो निश्चेतुं शक्योऽतिप्रसङ्गात् । निश्वयश्व विकल्प एवेति व्यापकाभावो बाधकम् ।
स्यादेवम् अस्तु नाम स्कन्धलक्षणोऽर्थः परमार्थः, स पुनः सामान्यविशेषात्मक इति तु न संसद्दामहे । स्वलक्षणानां सकलसजातीयविजातीयव्यावृत्तस्वरूपत्वेन 20 कलयापि सामान्यांशस्याभावात् । यत् प्रमाणवार्तिकम् -
१ न च क्षयोपशमाधीना छद्मस्थधीर्षस्तुभाषिताऽपि यथावस्तु || २ अत्र हस्तलिखितादर्शे 'क्षयोपशमै पारवश्यदावदग्धा' इति विभक्तिसंकेतयुक्तः पाठो वर्तते, ततोऽत्र 'क्षयोपशमेन पारवश्यम्, तदेव दाव:, तेन दग्धा' इति विग्रहो ज्ञेयः || ३'६' [ = षष्ठ्यन्तं पदम् ] ॥ ४ अनन्तात्मनः कियदग्रहो ऽप्यदोषाय || ५ तत् प्रमाणस्यावायस्य सामान्यविशेषरूपः प्रतिभासो वस्त्वेव || ६ '५' अत्र '५' इत्यस्य 25 'तस्मात्' इत्यर्थः भाति || ७ न केवलं परमाणवः || ८ अनुमानम् || ९ बाह्यग्रहणं सुखादिव्युदासार्थम् तेन न भागासिदो हेतुः || १० इन्द्रियजविकल्पविषयः || ११ 'सम्यग् ग्रहणं संशय-विपर्ययनिरासाय | १२ क्षणिकत्वांशो न प्रवृत्तिविषयोऽस्मदादीनाम् ||
"
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org