________________
बौद्धसम्मत विकल्पप्रतिभासावस्तुत्वनिराकरणम् ।
अत्राह
अव्यक्तसन्मात्रग्रहाद विशेषावसायो भिन्नगोचरः प्रमाणम् । नेत्रमुन्मोलयतः सन्मात्रावगमोऽनुभवसिद्धः । ___अव्यक्तेति । अव्यक्तं विशेषांशव्यक्तिरहितं यत् सन्मात्रं सामान्यमानं तस्य यो ग्रोऽवग्रहज्ञानं तस्माद् भिन्नगोचर इति सम्बन्धः । मिन्नगोचरत्वे स्वरूपकथनद्वारेण 5 हेतुमाह-विशेषावसायो विशेषांशस्य निश्चयोऽवाय इत्यर्थः । विशेषावसायो यतो नाव्यक्तसन्मात्रावसायस्ततो भिन्नगोचरो मिन्नविषयः सन् प्रमाणम् । वस्तुनो द्वावंशी सामान्य
विशेषश्च । तत्र सामान्यमवग्रहग्राह्यम् , विशेषः पुनरवायावसेय इति कुतो गृहीतग्राहित्वं 144B येनाप्रामाण्यं स्यात् ? भवद्भिरपि चोक्तम्- “एकस्मिन्नपि वस्तुनि घटादौ विकल्प्य
माने विकल्पप्रतिभासोऽनेकावस्थासाधारणः, प्रत्यक्षप्रतिभासस्त्वसाधारणः । तस्मात् 10 साधारणासाधारणविषयतया तयोर्भेद:" [
] इति । अपि च, यदि निर्विकल्पकप्रतिमासे एव सविकल्पके स्यात् तदाऽस्यार्थान्वयव्यतिरेकानुविधायित्वमेव हीयेत, विनिवृत्तेऽपि वस्तुनि विकल्पावस्थायां वस्तुप्रतिभासस्यानुवृत्ते: । तनावग्रहा-ऽवायधियोरेकविषयत्वम् ।
ननु वस्तुसामर्थ्य भाव्यवग्रहः सर्वात्मनापि वस्तु गृह्णात्येव, अन्यथा वस्तु- 15 सामर्थ्यमावित्वमेवास्य न स्यात् । ततो विशेषांशस्याप्यवग्रहेण ग्रहणात्तद्विषय एवो
तगे विकल्पो गृहीतग्राही अप्रमाणमेवेति । नैवम् । यतो नेत्रैमुन्मीलयतो विकाशयतः 145A सन्मात्रावगमः, मात्रग्रहणेन विशेषांशावगमनिरासः, अव्यक्तसन्मात्रस्यैव परिच्छेदोऽनुभव
सिद्धः स्वसंवेदनसिद्धः । निद्रामुद्रां ह्यपहाय पुमान् पुरः पटादि वस्तु पश्यन् प्रथममास्मनोऽध्यक्तसन्मात्रांशावगममनुभवादेवावगच्छति । द्वयममुना योगेन क्रियते-अनु- 20 भवेनावग्रहस्य सत्ता साध्यते, तथा अस्यैव सन्मात्रग्राहित्वं चेति ।
ननु यदि प्रथममवग्रहज्ञानं वस्तुसामर्थ्यभाव्यप्येकांशावभासि स्यात्तदा वस्तुसामर्थ्य भाव्येव न स्यादिति । उच्यते
न च क्षयोपशमाधीना छद्मस्थधीर्वस्तुभाविताऽपि यथावस्तु । अनन्तात्मनः कियदग्रहोऽप्यदोषाय ।
___25 १ अव्यकसम्मात्रप्रहाद विशेषावसायो भिन्नगोचरः प्रमाणम् ॥ २ यतस्त्रिकालानुयायित्वेन अन्यैर्वस्तुभिः सह सदृशतया गृहाति पदार्थम् ॥ ३ यतो वर्तमानकालरवेन सजातीयविजातीयव्यावृत्ततया वस्तु गृह्णाति ॥ ४ १' [=प्रथमाविभक्त्यन्तम् ] ॥ ५ निर्विकल्पिकगतप्रतिभासस्य ॥ ६ नेत्रमुन्मीलयतः सन्मात्रावगमोऽनुभवसिद्धः ॥ ७ सूत्रेण ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org