________________
स्वोपाटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे
वशाचास्पष्टनीलस्वलक्षणाकारानुकारी, दृश्यविकल्प्ययोश्चैकीकरणादेवमुच्यते, वस्तुतस्तु न किञ्चिदसावनुकरोति, स स्मृतिरेव, कुतः ! कार्यतस्तविषयत्वात् , न परमार्थतः, कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनं तदध्यवसायश्च । यतश्च कार्यतस्तद्विषयत्वात् स्मृतिरेवातो न प्रमाण दर्शनबलोत्पन्नो विकल्पः । तथाहि-स्मृतेरप्यनुभूतस्वलक्षणांशविषयाया न परमार्थतस्तद्विषयत्वम् , स्वलक्षणस्येन्द्रियबुदाविव स्फुटरूपतया स्मृतावप्रतिभासनात्, किन्तु यथोक्तात् कार्यत एव । तच्च विधिविकल्पेऽपि समानमिति कथमसौ स्मृतिन स्यादिति ।
5 तत्रैतत् स्यात्-नन्दनुमानविकल्पः स्मृतिरूपोऽपि प्रमाणमिष्यते । तथाहि-यदेवानमिव्यावृत्तं वस्तुमात्रं महानसादावनुभूतमासीत् तदेव प्रदेशविशेषे धूमदर्शनात् स्मर्यते, तद्वद् विधिविकल्पोऽपि प्रमाणं भविष्यतीत्याहअनधिगतस्य वस्तुनो रूपस्य अनधिगतेरिति । एवं मन्यते यत् महानसादावनग्निव्यावृत्तं वस्तुमात्र प्रागनुभूतं न तत् तद्देशादिसम्बन्धितया एव अनुमानविकल्पेन स्मयते, किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया। ततः साध्यमिदृष्टान्तभिग्राहिदर्शनद्वयानधिगतस्यानमिव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेना- 10 घिगमाद् युक्तमस्य प्रामाण्यं न तु दर्शनपृष्ठभाविनो विकल्पस्य तद्विपरीतत्वादिति ।" इति अर्चटभट्टविरचितायां हेतु बिन्दुटीकायाम् पृ० ३३-३४ । “अनधिगतार्थविषयं प्रमाणम्' इति प्रमाणलक्षणं परेण कारिकया दर्शितमिति दर्शयन्नाह-तत्रापूर्वेति । अहमहमिकया क्रिया आहोपुरुषिका, तया करणभूतया । तत् स्वलक्षणमस्पष्टरूपतया अनुकरोतीति तदनुकारीति विवक्षितमिति प्रकटयन्नाह-अस्पष्टनीलस्वलक्षणानुकारी अस्पष्टनीलस्वलक्षणाभासमित्यर्थः । सर्व एव हि विकल्पोऽस्पष्टस्वलक्षणामः । नीलादि पश्यतस्तु विकल्पो य: 15 स्पष्टार्थप्रतिभासाभिमानः स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । यथा चैतत् तथोभे(चे) समीचीनमाचार्यो विनिश्चयमिति(य इति) तत एवा[व]गन्तव्यम् । कथं पुनरस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत् स्पष्टस्वलक्षणानुकारीत्याशङ्कय योज्यम्-साक्षादव्यवधानेन अनुत्पत्तः ततः स्वलक्षणादिति प्रकरणात् । यदि ततः तमोत्पन्न तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्य इत्याशङ्कय योज्यम्-दर्शनेति । दर्शनेनानुभवेनाहितः संस्कारो वासना तस्याऽऽवेध आक्षेपः तद्वशात् , चो व्यक्तमेतदित्यस्मिन्नथें । 20
ननु यत् तत्रावभासते तत् स्वलक्षणम् , येन(नाs?)स्पष्टनीलस्वलक्षणानुकारीस्युच्यत इत्याह-श्येति । रश्यविकल्प्ययोरेकीकरणात् दृश्य-विकल्प्यावर्थावेकीकृत्यास्य प्रवृत्तरित्यर्थः । दृश्यविकल्प्यकीकरणं च तस्य तथोत्पत्तरेव द्रष्टव्यम् । तदवभासिनोऽबाह्यत्वादेव न परमसावनुकरोतीत्याशयः । स विकल्पः । तद्पो(पा)नालम्बने कथं गृहीतग्राहित्वलक्षणं स्मृतित्वमित्याशङ्कयाह-तथाहि इति । __ स्मृतिरूपत्वमेवानुमानविकल्पस्य प्रतिपादयन् परः प्राह-तथाहीत्यादि । अग्नित्वादिना रूपेणानवच्छिन्नत्वात् 25 अनमिव्यावृत्तं वस्तुमात्रमित्याह । महानसः सूपकारशाला । आदिशब्दादयस्कारकुख्यादेग्रहणम् । प्राक् पूर्व व्याप्तिग्रहणकाल इत्याक्तम् । प्रदेशविशेष पर्वतादौ । तद् अनुमानविकल्पवत् ।
__ नन्वधिगतावधिगन्तुरप्यनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यमावेदितमेवेति किमनेनोक्तानतिशायिना उक्तेनापीत्याशङ्कयाह-एवं मन्यत इति । पूर्वपक्षिणा एतस्मिन्नुक्तऽप्येवं ब्रुवाणो नियतमेषं वक्ष्यमाणकं मन्यते चेतसि निवेशयति । यदित्यादिना मननीयमेव दर्शयति । आदिशन्दात् कालस्य 30 परिग्रहः । साध्यमिग्राहि पर्वतादिग्राहि । दृष्टान्तर्मियाहि महानसादिधर्मिग्राहि । तत्र दृष्टान्तर्मिग्राहिणा दर्शने[न] नैव पर्वतादिविशिष्टमनमिना व्यावृत्तं वस्तु गृहीतम् । नापि तदाह न पर्व(नापि पर्व)तादिसाध्यमिग्राहिणान्वयाद्यवेदिनो(ना)पि । तथात्र विप्रति(तथात्वेऽविप्रति)पत्तिप्रसङ्गात् तद्विशिष्टमनग्निव्यावृत्तं वस्तु गृहीतमिति दर्शनान्वया(दर्शनद्वया)नधिगतमुक्तम् । अयोगव्यवच्छेदेन सम्बन्धव्युदासेन । तविपरीतत्वात् अनुमानविकल्पविपरीतत्वात् । तेन यदा(यथा)दृष्टस्यैव निश्चयनात्" इति दुबैकमिश्र- 35 विरचिते हेतुबिन्दुटीकालोके पृ० २८७-२८८ ॥ ६ अधिगतस्वलक्षणसामर्थ्यजन्मा ।। ७ कार्यमत्र स्वलक्षणे प्रवृत्तिस्तदध्यवसायश्च ।।
www.jainelibrary.org
Jain Education International 2010_05
For Private & Personal Use Only