________________
विकल्पपतिभासस्य अवस्तुत्वनिराकरणम् । क्षयोपशमादेव च क्रमः । युगपदनन्तधर्मान्मकेऽपि वस्तुनि योऽयं धर्माणां क्रमेण निश्चयः सोऽपि क्षयोपशमादेव । यत्र यत्र क्षयोपशमः प्रथमं भवति स स 143A प्रथमं निश्चीपत इत्यर्थः । क्रममेव दर्शयति-जनकेति । जनकः पिता स चासावध्यापकः
पाठयिता वेति विशेषणसमापः । तं जनकाध्यापकं पश्यन् द्गदवलोकयन् , 'पुत्र शिष्यः' इति सामर्थ्य लभ्यम् . जनकत्वं निश्चित्याध्यापकत्वं निश्चिनोति । जनकाध्यापकत्वा. 5 विशेषेऽपि हि पितरमायान्तं दृष्ट्वा बालक: प्रथम पिता मे आगच्छतीति वदति पश्चादुपाध्याय इति, पितृन्दनिश्चयन एव प्रथम क्षयोपशमस्याविर्भावात् , पश्चादुपाध्यायत्व
निश्चयने । तद्यद्यपीन्द्रियजो विकल्यो वस्तुसामर्थ्यभावी निश्चयात्मा च तथाऽपि न 1430 वस्तुनः सर्वात्मना निश्रयः, क्षयोपशमम्य प्रतिनियतधर्मनिश्वायिज्ञानजनन एवं
सामर्थ्यात् । अत एवैकस्मिन् प्रमाणे प्रवृत्तऽपि सर्वेषां वस्तुधर्माणामनिश्चगदनिश्चित- 10 धर्मनिश्वयाय प्रमाणान्तगणि प्रवर्तन्ते ।
स्यान्मतम्-यद्यपीन्द्रियजो विकल्पोऽर्थसामर्थ्य मावी तथापि न प्रमाणम् , गृहीतग्राहित्वात् । स्वमतेऽपि हि नेत्रोन्मीलनान्तरमाविनाऽवग्रहेण प्रथमं सर्वात्मना वस्तुनि परिच्छिन्ने पश्चात् तत्रैवावायधीरुदयते, गृहीतग्राहि चाप्रमाणमेव । तदुक्तम्
___ "अधिगते तु स्वलक्षणे तंत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् 15 144A स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" [हेतुविन्दुः पृ० ३ ] इति ।
१ जनकाध्यापकं पश्यन् जनकत्वं निधित्याध्यापकत्वं निश्चिनोति ॥ २ पुत्ररूपः शिष्यः ॥ ३ ७' [=सप्तम्यन्तमिदं पदम् ] ॥ ४ स्वसिदान्तश्रद्धालोर्वचः ॥ ५ * दृश्यतां पृ० ३१ पं० १६ पृ० ३२ पं. ८ | "तस्मादनधिगतार्थविषयं प्रमाणमित्यपि 'अनधिगते स्वलक्षणे' इति विशेषणीयम् । अधिगते तु स्वलक्षणे तरसामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् स्मृतिरेव, न प्रमाणम् , अनधिगतवस्तुरूपानधिगतेः" 20 इति बौद्धाचार्यधर्मकीतिविरचिते हेतु बिन्दौ पृ० ३। "तदेवं नीलं दृष्ट्वा 'नीलम्' इति ज्ञाने प्रतिभास मानं सामान्य न काञ्चिदर्थक्रियामपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपष भाविनः प्रामाण्यप्रसादतिव्याप्तिरिति "तत्रापूर्वार्थविज्ञानम्" [ ] इति प्रमाणलक्षणे मीमांसकविशेषणमुपादेयमिति दर्शयन्नाह-तस्माद् यत एवमनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यमयुक्तं तस्मादस्मदभिमतं "प्रमाणमविसंवादि ज्ञानम्" [प्रमाणवा० १ । ३] इति प्रमाणलक्षणं 25 ब्युदस्य अनधिगतार्थविषयं प्रमाणम् "तत्रापूर्वार्थविज्ञानं प्रमाणम्" इत्यपि एतस्मिन्नप्याहोपुरुषिकयाऽन्यस्मिन् प्रमाणलक्षणे क्रियमाणे अतिव्याप्तिपरिहाराय विशेषणीयं विशेषणमुपादेयम् । कथं विशेषणीयम् ? अनधिगते स्वलक्षणे इति । अनेन हि विशेषणेन अनुमानविकल्पस्य च प्रामाण्य सिध्यति आलोचनाज्ञानपृष्ठभाविनश्च विकल्पस्य प्रामाण्यं व्युदस्यत इति सर्व सुस्थम् ।
तदेवं विधिविकल्पस्यानर्थक्रियासाधनविषयतयाऽनधिगतसामान्याधिगमेऽपि प्रामाण्यं निराकृत्य 'च'शब्द- 30 समुचितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणमप्रामाण्यकारणं दर्शयन्नाह-अधिगते तु स्वलक्षणे आलोचनाज्ञानेन तत्सामर्थ्यजन्मा स्वलक्षणाधिगमबलभावी विकल्पस्तदनुसारी साक्षादनुत्पत्तदर्शनसंस्कारावेध
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International 2010_05