________________
1418
स्थोपक्ष टीकासहित द्रभ्यालकारे द्वितीये प्रकाशे 'निश्चयात्मकत्वेऽपीति । वस्तुरूपनिश्चयात्मकमिन्द्रियजं ज्ञानमिहावायः । स यद्यपि निश्चयात्मा वस्तुरूपग्राही च तथापि तेन नियतपर्ययपरिच्छेदो नियतानां कियनामपि पर्यायाणां वस्तुधर्माणां निश्चयो भवति । क्षयोपशमस्य द्रव्याद्यपेक्षया द्रव्याद्यपेक्षम्येत्यर्थः । "हेतुककरणेथम्भृतलक्षणे" [सि. २।२।४४] इत्यनेनेत्यम्भूतलक्षणा चेयं तृतीया । आदिशब्दात् क्षेत्र भावग्रहः । अल्पशक्तित्वात् प्रतिनियतपर्ययनिश्वायि- 5 ज्ञानजनकशक्तित्वात् ।
ज्ञानावरणीयकर्मक्षयोपशमान प्रमाणानि प्रादःपन्ति । कर्मक्षयोपशमय प्रतिनियतद्रव्य-क्षेत्र-भावापेक्षः । ततो येन द्रव्यादिना यावत्पर्यपनिश्चायिज्ञानजननदक्षः क्षयोपशमः प्रबोधित: स तावत्पर्ययनिश्चायकमेव प्रमाणापजनयति । प्रमाणमपि निश्चयात्मकतयोत्यममपि तावत एव पर्यायानिश्चिनोति नाधिकान् । दुरतिक्रमा हि कारणानामाज्ञा न 10 पग्मुखापेक्षः कार्यर्लयितुं शक्यते । तद्यद्यपि वस्तुग्राही निश्चयात्मा चेन्द्रियजो विकल्पस्तथाऽपि न वस्तुनः सर्वधर्मानवगच्छति, कियतामेवावगमे क्षयोपशमेनादिष्टत्वात् । अत
एव प्रमाणान्तराण्यप्युपपद्यन्ते, अनिश्चितरूपाणामपि कियतां वस्तुपर्यायाणां सत्यात् । 142A द्रव्याचपेक्षया क्षयोपशमन्य प्रतिनियतमादिज्ञानजननशक्तत्वमेव पयति
धूम इति । देशादिभेदा देशादिविशेषास्तवच्छिन्नं विशेषितम् । आदिशब्दादागरंवादि- 15 ग्रहः । यो हि धूमदर्शनात् क्षयोपशमः समुल्लमति, तेंदुत्पनं ज्ञानं वहिमा गमयदपि देशादिविशेषेविशेषितं गमयति । तथा ईन्द्रियं साक्षाद्बहुत विशेषैरिति वहि गमयतीति सम्बन्धः । अत्र साक्षाच्छन्दोपादानात् पूर्वत्र पेशेक्षता गम्यते । इन्द्रियर्य:
क्षयोपशमः प्रबोध्यते तदुत्पन्नं ज्ञानं वह्नि साक्षादात्मानं गमयति तथा बहुत विशेष142B मर्मासुररूपोष्णस्पर्शादिभिर्विशिष्टं च गमयति । तस्माद्विचित्र हेतुप्रभवः क्षयोपशमो 20
विचित्रशक्तिः, तत्प्रभवं विज्ञानमपि विचित्रशक्त्येव भवति । ततो निश्चयात्मकमपि ज्ञानं न सर्वात्मना स्व विषयं निचिनोति, तथा च प्रमाणान्तरस्याप्यवकाशः । अन्यदपि क्षयोपशमसामयं दर्शयति
क्षयोपशमादेव च कमः-जनकाध्यापकं पश्यन् जनकत्वं निश्चित्य अध्यापकत्वं निश्चिनोति । १ निश्चयात्मकत्वेऽप्यवायस्य नियतपर्ययपरिच्छेदः, क्षयोपशमस्य द्रव्याधपेक्षयाऽलएशक्तित्वात् ॥ २ कालश्चत्येके ।। ३ धूमौ देशादिभेदैरवच्छिन्नं यदि गमयति ॥ ४ अगरोरयम् ।। ५५' [पञ्चम्यन्तं विग्रहे पदम् , तस्मादुत्पन्नमिति अर्थः] ॥ ६ इन्द्रियं साक्षाद बहुतरविशेषैः ॥ ७ तार्णपार्णादिभिः ।। ८ सूत्रे ॥ ९ वडूः ॥ १.५' पञ्चम्यन्तं पदम् , तस्मादुत्पन्न मित्यर्थः ।।
25
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org