________________
विकल्पप्रतिभासावस्तुत्वनिराकरणम् । ननु यदि वर्णाद्याभासः स्मार्त्तः स्यात्तदा क्रमानुभवः स्यात् , अथ च स्पर्शवर्णानुभवकाल एव वर्ण-स्पर्शावनुभूयेते । तस्मात् प्रतिभाससङ्करोऽस्त्येवेति । अत्राह
आश्विति । आशु शीघ्र स्पार्शनादिप्रत्यक्ष-स्मृत्योर्मावादेकज्ञानग्राह्यत्वविभ्रमः स्पर्शवर्णयोर्भवति । यदैव स्पर्शानुभवः प्रादुर्भवति तदैव वर्णस्मृतिरपि । ततोऽत्यन्तं शीघ्र
भवनात् क्रमो नानुभूयते । तत् स्पर्शनजे विकल्पे स्पर्श एवावभासते न वर्णः, नेत्रजे 5 140% तु वर्ण एवावभासते न स्पर्श:. ततः परस्परविषयसाकर्याभावानेन्द्रियजो विकल्पोऽर्थ
मावानपेक्षः। तस्मादिन्द्रियार्थोत्पादात् सम्यगनुभवत्वेन निश्चयात्मा विकल्पः प्रमाणमेव । तथा च तत्प्रतिमासस्य वस्तुतैवेति स्थितम् ।
एतेन “यत् प्रत्यक्षं तन्नामिलापसंसर्गयोग्यप्रतिभासं यथा निर्विकल्पकम् । यदभिलापसंसर्गयोग्यप्रतिमासं न तत् प्रत्यक्षं, यथा शाब्द-लैङ्गिकविकल्पो" [ ] इति 10 प्रसङ्ग-विपर्ययौ प्रत्याख्यातौ । न हि निर्विकल्पस्य प्रत्यक्षत्वप्रयुक्तममिलापसंसर्गायोग्यप्रतिभासत्वम् , अपि तर्हि ? तथाप्रतिभासहेतुसामग्री विरहप्रयुक्तम् । नाप्यमिलापसंसर्गयोग्यप्रतिभासत्वप्रयुक्तमप्रत्यक्षत्वं शब्द-लैङ्गिकविकल्पयोः, अपि त्वनिन्द्रियकारणत्वप्रयुक्तमिति ।
ननु यदि घटोऽयमिति विज्ञानं निश्चयात्मकं प्रमाणं तदा घटस्य सर्वा- 15 स्मनापि निश्चयः प्राप्नोति, तदन्यस्यानिश्चितस्याभावात् , भावे वाऽतत्स्वभावत्वम् ।
न हि यो यदेकयोगक्षेमो न भवति स तत्स्वभावो युक्तः, तन्मात्रनिबन्धनत्वाद् 141A मेदव्यवहारस्य । सर्वात्मनिश्चये च प्रमाणान्तरावृत्तिः स्यात् , एकेनैव प्रमाणेन निश्चयात्मनाऽशेषस्यापि वस्तुधर्मस्य निश्चयादनित्यत्वादी भ्रान्तिसद्भावायोगादिति । अत्राह
20 निश्चयात्मकत्वेऽपि अवायस्य नियतपर्ययपरिच्छेदः, क्षयोपशमस्य द्रव्याद्यपेक्षयाऽल्पशक्तित्वात् । धूमो देशादिभेदैरवच्छिन्नं वहिं गमयति, इन्द्रियं साक्षाद् बहुतरविशेषैः । र आशुभवनादेकत्वभ्रमः ॥२ आशुभावित्वमेव भावयति ।। ३ प्रतिभासमानस्याकारस्य वस्तुतैवेत्यर्थः ।। ४ एतेन यत् प्रत्यक्षमित्यादि । यत्र परसिद्धन हेतुना असिद्ध साध्यं साध्यते स प्रसङ्गः तर्क इत्येक एवार्थः। 25 प्रत्यक्षं प्रत्यक्षमिति प्रसिद्ध हेतुकृतम् । प्रसङ्गस्तु विपर्ययनिष्ठो भवति, स च साध्याभावे साधनाभावरूप इति ॥ * तुला-उदयनाचार्यविरचितायां प्रशस्तपादभाष्यटीकायां किरणावल्यां [पृ० १८५] समाभप्रायमेतत् पं० १४ पर्यन्तम् || ५ बौदोक्तौ ॥ ६ अभिलाफ्संसर्गयोग्यप्रतिभासहेतु ॥ ७ मानसकारणप्रयुक्तमित्यर्थः ॥ ८ निश्चितादाकारादन्यस्य ॥ ९ अनिश्चिताकारस्य ॥ १० निश्चिताकारास्वभावत्वम् ॥ ११ एकयोगक्षेमाभावनिबन्धनत्वात् ।। १२ '६' षष्ठयन्तं विग्रहे शेयम् ] ॥
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org