________________
स्वोपज्ञटीकासहिते व्रन्यालङ्कारे द्वितीये प्रकाशे
तथाप्यतीतगोचरत्वादयो न भवन्ति, नोइन्द्रियस्यैव तत्करणे सामर्थ्यादिन्द्रियस्थासमर्थत्वात् । विचित्रशक्तयो हि भावा भवन्तीति ।
ܢ
ननु रूपाद्यामासवदिति दृष्टान्तः परासिद्धः, न खलु पैरे प्रत्यक्षपृष्ठभाविनि विकल्पे रूपाद्यवभासमशिश्रियन्निति । तम, परैरपीष्टत्वात् । तदुक्तम् - "इन्द्रियकृतस्तु रूपग्रहणप्रतिनियमोsस्तु" [प्रमाणविनिश्रयटीका पृ० ६६ A पं० ४ ? ] इति । तस्मादि - 5 न्द्रियार्थजो विकल्पो निविकल्पकमिव प्रमाणमेव ते ।
139A स्यादेतत्-यदीन्द्रियजो विकल्पो वस्त्ववभासी, तदा कथं स्पर्शन विकल्पे वर्णामासो भवति ? तथाहि - निशास्वव्यावृते नेत्रे घटादीन् स्पृशतः सतः दृश्य वस्तुगता बुद्धिर्घटोऽयमिति जायते ।] न चान्येन्द्रियजग्राह्यमर्थमन्येन्द्रियजो विकल्पो गृहन वस्तुविषये [ भवितुमईतीत्या] इ
-
स्पार्शनादौ तु स्मार्ती वर्णाद्याभासः, अस्पष्टत्वात् - ऐन्द्रियस्य स्पष्टत्वात्-अनुभवाभावेऽभावाच्च । आशुभवनादेकत्वभ्रमः ।
स्पार्शनादाविति । आदिशब्दाच्चाक्षुषादिपरिग्रहः । स्मार्त्तः स्मृतिरूपः वर्णाद्याभासः । आदिशब्दात् स्पर्शग्रहः। [स्पार्शन- चाक्षुष विकल्पयोर्योऽयं ] बैर्ण-स्पर्शप्रतिभाससङ्करावभासः स स्मृतिरेव । तथाहि - स्पर्शनेन्द्रियजे हि विकल्पे स्पर्श एवावभासते यः पुनस्तदानीं 15 1398 [वर्णावभासो भवति स व ]र्णस्य तदानीं स्मरणात् । तत् कुतोऽन्येन्द्रिय जे ग्राह्यमर्थमन्येन्द्रियजो विकल्पो गृह्णाति " येनार्थाभावेऽप्युत्पादो भवेत् तस्य । वर्णाद्याभासस्य स्मार्तत्व हेतुमाह - ] अस्पष्टत्वात् । यथा घटं स्पृशन् पश्यन् वा स्पर्श रूपं वाऽतिस्पष्टमनुभवति न तथा रूपं स्पर्श वा तस्य सामान्येनैव रूप-स्पर्शावभासात् । यदि विन्द्रियजे ज्ञाने रूप-स्पर्शावभासः स्यात् तदाऽतिस्पष्टः स्यात् ऐन्द्रियस्य स्पष्टत्वात् 20 इन्द्रियजज्ञानप्रतिभासस्य स्पष्टत्वा [त् । वर्णाद्याभासस्य स्मार्तत्वे हेत्वन्तरमाह- अनुभवाभावेऽभावाच्च । यः पूर्वं घटं नाद्राक्षीन चास्प्राक्षीनासौ घटं स्पृशन् पश्यन् वा वर्णस्पर्शानुभवति । सोऽयमनुभवाभावेऽभावो वर्णाद्याभासस्य स्मार्तत्वे हेतुः ] । तस्माद1404 स्पष्टत्वादनुभवाभावेऽभावाच्च वर्णाद्यामासोऽयं स्मार्त्त एव ।
,
10
१ अतीतपर्याय विकल्पकरणे ॥ २ बौ[द्धाः ] || ३ विकल्पे ॥ ४ [नीला १] द्याभासः ॥ * अत्र 139 पत्र 25 चतुर्ष्वपि पार्श्वेषु किञ्चित् किञ्चित् खण्डितं वर्तते, अतः कश्चिद् मूलभागः कश्विश्च टिप्पणभागः खण्डितः, अतः खण्डितांशपूरणाय यावानंशोऽस्माभिः कल्पितः स [ ] एतादृशे चतुरस्रकोष्ठके निवेशितः || ५. चाक्षुषविकल्पग्राह्यत्वाद् वर्णाभासस्येति भावः ॥ ६ '६' [ षष्ठ्यन्तं पदम् ] ॥ ७ अन्येन्द्रियज विकल्पग्राह्यम् ॥ ८ स्पार्शनादौ तु स्मार्ती वर्णाद्याभासः ॥ ९ यथासङ्ख्यम् || १० विकल्प ॥ ११ ग्रहणेन ॥ १२ विकल्पस्य || १३ स्पृशतः पुंसो रूपं सामा[न्येनैवावभासते एवं पश्यतः स्पर्शः सामान्येनैवावभासते ] ॥
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org