________________
बौद्ध सम्मत विकल्पप्रतिभासावस्तुत्वनिराकरणम् |
न च पूर्वदृष्टत्वग्रहादेवातीतगोचरत्वादयः, नोइन्द्रियजस्यैव सामर्थ्यात् । इन्द्रियं हि रूपायाभास इव भेदान्तरेऽपि समर्थम् ।
ने चेति, न च पूर्वदृष्टत्वग्रहादेव पूर्वापरदृष्टयोरेकत्वं परिच्छिद्यत इत्येतावतैवाऽतीतानागतगोचरत्वादयो मानमधर्मा इन्द्रियजस्यापि विकल्पस्य भवन्ति । पूर्वापर- 5 दृष्टयोरेकत्वग्रहेऽपि हि विकल्पस्य नासन्निहितविपयत्वम् पूर्वदृस्य द्रव्यापेक्षया सम्प्रत्यपि विद्यमानत्वेन सन्निहितत्वात् उत्पादव्ययधौव्ययुक्तस्यैव वस्तुनः सच्चात् । 137B ततः कुतोऽसन्निहितविषयत्वाद् मानसादभेदेन विकल्पस्यातीतगोचरत्वादयो मानसधर्माः प्रसज्येra |
138B
अथवा वार्त्तिकेनैव कारणमुच्यते - नोइन्द्रियजस्यैव विकल्पस्थातीतग्रहादौ शक्तत्वात् । 10 हियस्मादिन्द्रियं रूपाद्याभास इव, आदिशब्दाद्रसाद्याभासपरिग्रहः, भेदान्तरेऽपि रूपाद्याभासलक्षणविशेषाद्विशेषान्तरेऽपि स्वैजन्मनो विकल्पस्य कर्त्तव्ये समर्थम् । यथाहीन्द्रियमसैन्निहितविषयत्वाविशेषेऽपि स्वजन्मनो विकल्पस्य मनोजन्मनो विकल्पाद्रूपाद्यमास138A लक्षणं विशेषं करोति तथाऽतीतानागताविषयत्व-वस्तु प्रभेदाग्रहणानूहकत्वाऽर्थभावापेक्षत्वेच्छानिवत्वलक्षणमपि विशेषं करोति, तत् कुतोऽसन्निहितविषयत्वेनेन्द्रियज- 15 मानसविकल्पयोरमेदप्रसञ्जनेऽपीन्द्रयजस्यातीतगोचरत्वादयो मानसधर्मा भवेयुः । मानसस्य तु भवन्त्येव, एतन्निर्वर्त्तकस्येन्द्रियस्य तत्राभावात् ।
८९
9
अथ पूर्वापरयोरेकत्वग्रहाभ्युपगमेऽतीतगोचरत्वं भवद्भिरपीष्टमेव, तत् किमुच्यतेअतीतगोचरत्वादयो न भवन्तीति । उच्यते-द्रव्यापेक्षयाऽपि यदिदानीमसैद्वस्तु यथा भरतादयः तैंद्विषयमतीतविषयत्वमिन्द्रियजविकल्पस्य वार्यते । यत् पुनरिदानों द्रव्या- 20 पेक्षया सदेव पर्यायापेक्षया पुनरसद् तद्विषयमतीतविषयत्वमिष्टमेव ।
इदमत्र हृदयम्-इन्द्रियविकल्पस्तावदसन्निहित विषय एव न भवति, त्रिकालान्वयिनः पुरोऽवस्थितस्य वस्तुनो ग्रहणात् । अथापि विनष्टपर्यायापेक्षयाऽसन्निहितविषयत्वमुच्यते
१२
१ न च पूर्वदृष्टत्वग्रहा देवातीतगोचरत्वादय ॥ २ नोइन्द्रियजस्यैव सामर्थ्यात् ॥ ३ इन्द्रियं हि रूपाधाभास इव भेदान्तरेऽपि समर्थम् ॥ : '५' [ = विग्रहे पञ्चम्यन्तम् । स्वस्माज्जन्म 25 यस्य स स्वजन्मा, तस्य ] || ५ तदभिप्रायेण ॥। ६ इन्द्रियजन्यस्य || ७ रूपाद्याभासस्य विशेषस्य ॥ ८ अस्तु तावत् पर्यायापेक्षया इन्द्रियज विकल्पस्यातीतविषयत्वम् । ९ भरतादिरूपेण || १० भरतादिद्रव्यवि ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org