________________
बौद्धसम्मतविकल्पप्रतिभासावस्तुन्वनिराकरणम । अपि च, यो भाषाद्रव्यः परिणामिकारणत्वेन जन्यते शब्दस्तस्यैव श्रोत्रविज्ञानग्राह्यत्वनियमस्तदाह-से एव च भाषाद्रव्यजन्मा ध्वनिः श्रावणः श्रवणेन्द्रियस्यैव ग्राह्यः । योऽयं सर्वेन्द्रियप्रभवे विकल्पज्ञाने ग्राह्यार्थसमीपदेशवतिभाषाद्रव्यैः शब्दोल्लेख उपकल्प्यते सर्वेन्द्रियविज्ञानाऽविरोधी न तस्यैकेन्द्रियविज्ञानावस्थाननियमः । यः
पुनर्भापाद्रव्यरेव शब्दपरिणामपरिणतेविज्ञाने स्वग्रहणपरिणामो जन्यते स नियमेन 5 135A श्रोत्रन्द्रियविज्ञानावस्थाय्येव ।
___एतेन यदुक्तम्-"यद्यमिलापवद्विज्ञानं तदा चेतना-ऽचेतनयोस्तादात्म्यमायातम् , न चैतद्युक्तम्" [ . ] इति, तत् प्रत्युक्तम् , भाषाद्रव्यपरिणामस्य शब्दस्य विज्ञानेऽनभ्युपगमात् । अर्थसारूप्यमात्रमपि ह्यस्माभिर्विज्ञाने नाभ्युपगम्यते, किमुत शब्दाभेदोऽभ्युपगंस्यते ? तद्विकल्पज्ञानमुत्पद्यमानं स्मृत्यादि निरपेक्षमेवोत्पद्यते, ततो नार्थस्य 10 व्यवधानमस्ति । तथा चार्थेन्द्रियभवत्वेन सम्यगनुभवत्वाद्विकल्पो नाप्रमाणम् , ततश्च
तत्प्रतिभासो नावस्त्विति स्थितम् । 1358 स्यान्मतिः-इन्द्रियार्थप्रभवस्यापि विकल्पज्ञानस्य विकल्पकत्वमेव निज रूपमप्रमाण्यनिबन्धनम् , यथा मनोराज्यादिविकल्पानाम् , ततोऽप्रामाण्याद्विकल्पप्रतिमासोऽवस्त्वेवेत्यत
15 न चास्य स्वरूपमेव भ्रान्तिहेतुः, अविकल्पस्यापि प्रसङ्गात् ।
नै चास्य विकल्पकज्ञानस्य स्वरूपमेव विकल्पकत्वस्वभाव एव भ्रान्तिहेतुर्भ्रान्तत्वस्य निबन्धनम् । अविकल्पस्यापि प्रसङ्गात् , निर्विकल्पकस्यापि द्विचन्द्रादिज्ञानवद् निर्विकल्पकत्वं भ्रान्तिहेतुः स्यादित्यर्थः । ___स्यादेवम्-यद् विज्ञानं ग्राह्यस्य पूर्वदृष्टेनैकत्वं परिच्छिनत्ति तत् सविकल्पकम् । पूर्व- 20 दृष्टेनें च वस्तुन एकत्वं क्षणिकन्वादसदेव, तत: सविकल्पकत्वे सति वस्तुतोऽमदर्थग्राह
कत्वं भवति, अतः सविकल्पकत्वं भ्रान्तिहेतुरुच्यते। निर्विकल्पकत्वे तु सति असदर्थ135A ग्राहकत्वं न भवति अतो निर्विकल्पकत्वं भ्रान्तिहेतुर्नोच्यत इति। ।।
तम,
आह
१ स एव च भाषणः ॥ २ अभिलापस्याचेतनत्वाद् विज्ञानस्य च चेतनत्वादित्यर्थः ।। ३ विकल्पप्रतिभासो 25 विकल्पं प्रतिभासमान आकारः स्कन्धरूप इत्यर्थः ॥ ४ न चास्य स्वरूपमेव भ्रान्तिहेतुः ।। ५ निर्विकल्पक ।। ६ निजं स्वरूपम् ॥ ७ मनोराज्यादिविकल्पानां तु अप्रामाण्यम् अर्थादनुत्पन्नत्वात् ॥ ८ घटादिनाऽभेदः ॥ ९ स एवायं तत्सदृशो वेति ॥ १० वस्तुना ॥ ११ इदानीन्तनस्य ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org