SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञटीकासहिते द्रव्यालङ्कारे द्वितीये प्रकाशे तन्निसारम् , अवान्तरव्यापारैस्तद्भावभाविन्यस्यानिषेधात् । व्यापारवत एव हि निमित्तस्य कार्य प्रति निमित्तत्वात् । यदि चापेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तं न तनुमानं लिङ्गमपेक्षेत, स्वरूपनिश्चय-सम्बन्धस्मरणव्यवहिनाल्लिङ्गाल्लिङ्गिज्ञानोत्पत्तेः। अतीतस्य तु 133B भाव एव नास्तीति कुतस्तद्भावभाविवचिन्ता । तदपि च परम्पराकारणमिष्टमेव । तस्मादर्थादुत्पद्यमाने विकल्पे शब्दोल्लेख: स्मृताविव स्मृत्यायनपेक्षो वा स्मृत्यादि- 5 सापेक्षो वा भवतु, न कश्चिद्विरोधः । एवं चैतदपि प्रत्युक्तम् " विशेषणं 'विशेष्यं च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा ॥ सङ्कतंस्मरणोपायं दृष्टसंकलनात्मकं । पूर्वापरपरामर्शशन्ये तेंचाक्षुषे कथम् ॥” [प्रमाणविनिश्चयः पृ० २५३] इति। 10 सर्वस्यापि विशेषणादिग्रहणस्यावान्तरव्यापारत्वेन सहकारित्वेन चाव्यवधायि(य?)कत्वात् । ननु यदि ग्राह्यार्थसमीपवर्तीनि शब्दपरिणामयोग्यपुद्गलद्रव्याणि विज्ञाने शब्दोल्लेखमुपकल्पयन्तीत्युच्यते, तदाऽर्थवच्छब्दोऽपि चाक्षुषादिविज्ञाने प्रतिभातीत्यायातम् । न चैतद्युक्तम् , श्रोत्रविज्ञानस्यैव शब्द विषयत्वादित्यत आह 15 उच्चार्यमाणो ध्वनिस्तजन्मा अन्य एव । स एव च श्रावणः । "उच्चार्यमाणस्तावोष्ठपटसंयोगेन पुरुषेण निष्पाद्यमानो ध्वनिः शब्दस्तेग्यो भाषाद्रव्येभ्यो जन्म यस्यासौ तजन्मा, भाषाद्रव्यैः परिणामिकारणत्वेन निष्पादित इत्यर्थः, 134B अन्य एव विकल्पप्रतिभासिशब्दोल्लेखादन्यजातीय एव । ततश्च यद्यपि शब्दोल्लेखव- 20 चाक्षुषादि ज्ञानमुपजायते तथापि न शब्दो विषयः, तद्ग्रहणपरिणामस्य श्रोत्रज्ञान एवं भावात् । 134A १ विपक्षे बाधकमाह ॥ २ धूमत्वेन निश्चितो धूमः ॥ ३ स्मरणाभ्याम् ॥ ४ जात्यादि ।। ५ व्यक्त्यादि ।। ६ समवायादि ॥ ७ पूर्व विशेषणं गृह्यते पश्वाद्विशेष्यमितियादिक्रमभावो लौकिकी स्थितिः ।। ८ तेन रूपेण प्रत्येति घटोऽयं पटोऽयमिति ।। *कारिकेयं प्रमाणवार्तिके (२११४४]sपि विद्यते । न्यायमञ्जरी- 25 न्यायवार्तिकतात्पर्यटीका-सम्मसिटीका-सिद्धिविनिश्चय टीकादिग्रन्थेष्वपि उद्धृतेयं कारिका ॥ ९ '६' [विग्रहे षष्ठयन्तम् ] ॥ १० विकल्पनम् ॥ ११ निर्विकल्पके ॥ १२ विकल्पनम् ॥ इयं कारिका प्रमाणवर्तिके [२।१७४]ऽपि विद्यते । सम्मतिटीकादिग्रन्थेष्वपि उद्धृतेयं कारिका ॥ १३ समाधिः ।। १४ सहकारिभावेन ॥ १५ भाषाद्र ।। १६ सर्वेन्द्रियभवे ॥ १७ उच्चार्यमाणो ध्वनिस्तजग्माऽन्य पव ॥ १८ ध्वनिः॥ 30 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy