________________
बौद्धसम्मत विकल्पप्रतिभामावस्तुन्धनिराकरणम् । अन्यथेति यदि स्मृत्युपनीतं शब्दं विना ज्ञाने शब्दोल्लेखो नेष्यते तदा स्मृतावपि स न स्यात् । गृहीनमक्रेनम्य हि पुमो घटशब्दो घटवाचक इत्येवमर्थे शब्दनियोजनरूपं स्मरणमुत्पद्यते । न च तदानीं स्मृत्यन्तरं साक्षाच्छब्दो वास्ति । ततः स्मृत्युपनीतं शब्दमन्तरेण नार्थ शब्द नियोजनमित्यस्य स्मृत्येव च व्यभिचारः । तेन
"शब्दस्य मतकालभावित स्मरण व व्यापकम् । व्याप्यं शब्देन विशिष्टत्वग्रहणमर्थस्य । ततो न सङ्कतं तत्स्मरणं चान्तरेण शब्देन विशिष्टो गृह्यते"
[प्रमाणविनिश्चयटीका पृ० ५७ A पं० ४] इति, 112A तत् प्रत्युक्तम् . पोग्यदेशावस्थितादर्थाद्वाचकशब्दस्मरणेन सविकल्पैकेन व्यमि
चारात् । तद् यथा किश्चिदतिस्वम्यस्तविषयं विज्ञानं प्रमाणान्तरसंवादब्यवधानमन्त- 10 रेणापि स्वतः प्रमाणम् , अन्यच्चानभ्यस्तविषयं प्रमाणान्तरसंवादव्यवधानेन परतः, तथाऽनेकधा व्यापारितशब्दस्य किश्चिदर्थे निश्चय विज्ञानमनपेक्षितस्मृत्यादिव्यवधानमुत्पद्यते, तदिनरचान्यथा ।
अपि च, स्मृत्यादिव्यवधानेनाथों जनयतीन्यल्पमिदमुच्यते, निर्विकल्पकस्यापि उपवधानेनेवाऽस्मामिरुत्पादाभ्युपगमात् । सर्वोऽपि धर्थः साक्षाज्ज्ञानावरणीयकर्मक्षयो- 15 पशमं जनयति ततो ज्ञानम् । अत एव कचिदिन्द्रियार्थसन्निपातेऽपि न ज्ञानोद्भवः ।
किच, सर्वमपि कारकमवान्तव्यापारेषु कर्तृत्वमनुभूय विवक्षितं कर्म करोति । अथस्यापि च सविकल्पकज्ञानोत्पादे स्मृत्यादयोऽवान्तरव्यापागः । न च व्यापाराः कारकं व्यवदधति । लोक-शास्त्रप्रसिद्धानां कारकाणामुच्छेदप्रसङ्गात् । तदर्थो यद्यपि स्मृत्यादिकमावहान्नेत्र विकल्पमुपजनयति तथापि साक्षादेव जनकः । कारणस्य ह्यन्तरे 20 कारणान्तरापाते व्यवधानं न व्यापारापाते । न च योग्यदेशस्थादर्थाद् विज्ञानोत्पादे. ऽर्थान्तरमन्तग प्रविशति, स्मृत्यादयस्त्ववान्तरव्यापारा नार्थान्तरम् , तावत एव समुदायस्य विकल्पोत्पादहेतुत्वात् । ततो यदुन्यते
" अपेक्ष्यमाणत्वं साक्षाजनकत्वेन व्याप्तम् , परम्परयाऽतीतस्यापि व्यापार1334 दर्शनात् । तेद्भाबभावित्वमेव ह्यपेक्षा । साक्षाचा जनकत्वे तद्भावमावित्वस्याभावः " 25
[प्रमाणविनिश्चयटीका पृ० ६१ B] इति,
132B
१ अन्यथा स्मृतावपि स न स्यात् ॥ २ आविष्टामिलापो योऽर्थो गृह्यते तद् व्याप्यमित्यर्थः ॥ ३ शब्द || ४ वाचकशब्दस्मरणं विनापि अभ्यासदशायां सविकल्पकमुत्पद्यत इत्यर्थः ॥ ५ तस्मात् ।। ६ सविकल्पकं ज्ञानं कर्म ॥ ७ अभ्युपगम्यापि स्मृत्यादीनामव्यवधायकत्वमाह ॥ ८ '५' [=तस्मात् ॥ ९ कारणभाव एव भाविस्वं कार्यस्य ।।
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org