________________
स्वोपज्ञटीकासहित प्रस्थालङ्कारे द्वितीय प्रकाशे
130B ज्ञानमुत्पन्नमतो नीलेन भाव्यम्, उन शब्दात्मना यथा शब्दाकारं मे ज्ञानमुत्पन्नमतः शब्देन माध्यम्' इति ? उभयथाप्यसिद्धिः । न हि शब्दोल्लेखो बहिस्थघटवस्तुतया बहिस्थघटशब्द तथा वाऽध्यवसीयते । किन्तु बहिस्थं वटवस्तु घटशब्दवाच्यमित्येवम् । ऐतोपादानभेदजनितत्वे वा भाषाद्रव्यजनितत्वे वा शब्दोल्लेखस्य घटते, किं बहिः शब्दसन्निधाना- सन्निधानाभ्याम् । न चैवं निर्विकल्पकेऽपि शब्दोल्लेखप्रसङ्गः । सत 5 एव हि शब्दोल्लेखस्य कारणं मृग्यते, न पुनरसतः समुत्पाद: । न चाप्यवश्यं कारणानि कार्यवन्त्येव । तन भाषाद्रव्याणि निर्विकल्पकेऽपि शब्दोल्लेखमुपजनयन्ति ।
सम्प्रति यद्यस्माद् ज्ञाने भवति तद् दर्शयति
अवहितेन्द्रियस्य बोधात् तत्त्वम् । अर्थात् तद्ग्रहणपरिगतिः । भाषाद्रव्येभ्यः 'अहिरहि:' इत्यभिलापोल्लखः । अन्यथा 10 स्मृतावपि स न स्यात् ।
૮૫
अवहितेति परिच्छेदं प्रत्यवधानवन्तीन्द्रियाणि यस्य तथाभूतस्य प्रतिदत्तुबौधात् बोधरूपात् परिणामिकारणादात्मन इत्यर्थः तत्त्वं विकल्पज्ञाने बोधरूपत्वम् । तथाऽर्थाद् विषयात् तस्याऽर्थस्यं ग्रहणपरिणतिः परिच्छेदपरिणामो त्रिकल्पज्ञाने भवति ।
तथा भाषाद्रव्येभ्यः शब्द परिणाम योग्य पुद्गलेभ्योऽहिरहिः सर्पः सर्प इत्येवं योऽभिलापः शब्दस्तस्य विकल्पज्ञाने उल्लेखो भवति । तस्माद् यथाऽर्थसन्निधानवशतोऽर्थ ग्रहणपरिणामो ज्ञाने भवति तथा मापाद्रव्यसन्निधानतः शब्दोल्लेखः । एतेन यदुक्तम्
“र्तद्धयर्थ सामर्थ्ये नोत्पद्यमानं तंदूरमेवानुकुर्यात्, न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तैंस्मिन् प्रतिभासमाने "तेऽपि प्रतिभासेरन् " [ प्रमाणविनिश्चयः पृ०२५२B] 20 इति,
131B तत् प्रत्युक्तम् । यतो यद्यप्यर्थात्मानो न भवन्ति शब्दास्तथाप्यर्थ समीपे भाषाद्रव्याणि सन्तीति ।
15
१ एतच्च शब्दो लेख स्वरूपं ' बहिःस्थं घटवस्तु घटशब्दवाच्यम्' इति ।। २ ज्ञानविशेष | ३ शब्दो लेखस्य भाषाद्रव्येभ्यो जनितत्वेऽङ्गीक्रियमाणे ॥ ४ अवहितेन्द्रियस्य बोधात् तत्रम् ॥ ५ अर्थात् तद्ग्रहण- 25 परिणतिः ॥ ६ कर्म ॥ ७ भाषाक्रव्येभ्योऽहिर ही ( ऽहिर हिरि ? ) त्यभिलापोल्लेखः ॥ ८ विकल्पज्ञानं शब्दलेखात्मकम् ।। ९ अर्थ ।। १० अर्थ ।। ११ शब्दाः ||
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org